________________
प्रमेयधोतिका टीका प्रति० १ स्थलचरपरिसर्पसंमूच्छिम पं० ति० जीवनिरूपणम् २५५ संमूच्छिमाः, भुजपरिसर्पसंमृच्छिमाः । अथ के ते उरःपरिसर्पसमूच्छिमा: ? उरःपरिसर्पसंभूच्छिमाश्चतुर्विधाः प्रशप्ता स्तद्यथा-अहयः, अजगराः, आसालिकाः, महोरगाः अथ के ते अहयः ? अहयो द्विविधाः प्रज्ञप्ता स्तद्यथा-दर्वीकराः मुकुलिनश्च । अथ के ते दर्वीकराः ? दीकरा अनेकविधाः प्रशप्ता स्तद्यथा आशीविषाः यावत् ते पते दर्वीकराः । अर्थ के ते मुकुलिनः ? मुकुलिनोऽनेकविधाः प्रशप्ताः तद्यथा-दिव्या गोणसा यावत् ते पते मुकुलिनः । ते एते अहयः । अथ के ते अजगराः ? अजगरा एकाकाराः प्रज्ञप्ताः, ते पते अजगराः। अथ के ते आसालिकाः ? आसालिका यथा प्रज्ञापनायाम् । ते पते आसालिकाः ॥ अथ के ते महोरगाः ? महोरगा यथा प्रज्ञापनायाम् । ते एते महोरगाः । ये चान्ये तथाप्रकारा स्ते समासतो द्विविधाः प्रज्ञप्ता, तद्यथा-पर्याप्ता चापर्याप्ताश्च तदेव । नवरं शरीरावगाहना जघन्येनामुलासंख्येयभागम् , उत्कर्षेण योजनपृथक्त्वम् । स्थिति जघन्येनान्तमुहूर्तम् उत्कर्षेण त्रिपञ्चाशद्वर्पसहस्राणि । शेपं यथा, जलचराणाम् , यावच्चतुर्गतिका द्वयागर्तिकाः, परीता असंख्याताः प्राप्ताः, ते एते उरःपरिसः । अथ के ते भुजपरिसर्पसंमूछिमस्थलचराः ? भुजपरिसर्पसंमूछिमस्थलचरा अनेकविधाः प्राप्ताः तद्यथागोधा नकुला यावद् येचान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्ता, तद्यथा-पर्याताश्चापर्याताश्च । शरीरावगाहना जघन्येनाङ्गुलासंख्येयभागम् उत्र्येण धनुःपृथक्त्वम् । स्थिति रुत्कर्षेण द्विचत्वारिंशद्वर्पसहस्राणि । शेषं यथा जलचराणां यावच्चतुर्गतिका द्वथागतिकाः। परीना असंख्याताः प्राप्ताः, ते पते भुजपरिसर्पसंमूच्छिमाः । ते पते स्थलचराः । अथ के ते खेचराः ? खेचराश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा चर्मपक्षिणाः, लोमपक्षिणः समुद्गकपक्षिणः विनतपक्षिणः । अथ के ते चर्मपक्षिणः, चर्मपक्षिणोऽनेकविधाः प्राप्ताः, तद्यथा-वग्गुलिनो यावद्येचान्ये तथाप्रकारा , ते एते चर्मपक्षिणः ॥ अथ के ते लोमपक्षिणः ? लोमपक्षिणोऽनेकविधाः प्रज्ञप्ता. तद्यथा-ढका कंकाः ये चान्ये तथाप्रकाराः ते एते लोमपक्षिणः । अथ के ते समुद्गकपक्षिणः ? समुद्गकपक्षिण एकाकाराः प्रक्षप्ताः यथा प्रज्ञापनायाम् । एवं विततपक्षिणो यावद् ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रशप्ता , तद्यथा-पर्याप्ताश्चापर्याप्ताश्च । नानात्वम् शरीरावगाहना जघन्येना
गुलासंख्येयभागम् उत्कर्षेण धनुःपृथक्त्वम् । स्थिति रुत्कर्षेण द्वासप्ततिवर्षसहस्राणि, शेपं यथा जलचराणाम् । यावत् चतुर्गतिका धागतिकाः परीता असंख्याताः प्रक्षमाः। ते पते खेचरसमूच्छिमतिर्यग्योनिकाः, ते एते संमूच्छिमपञ्चेन्द्रियतिर्यन्योनिकाः ॥२२॥
- टीका-से कि तं थलयरपरिसप्पसंमुच्छिमपंचिंदिय तिरिक्ख जोणिया' अथ के ते स्थलचरपरिसर्पसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः ? इति प्रश्नः, उत्तरयति-थलयरंपरिसप्प