________________
श्रीजीयाभिगमसूत्रे छाया-ते खलु भदन्त ! जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यगमिथ्यादृष्टयः गौतम ! नो सम्यगृहएयो मिथ्यादृष्टयः नो सम्यग मिथ्यादृष्टयः । ते सलु भदन्त ! जीवा किं चक्षुर्दनिनोऽचक्षुदर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ? गौतम ! नो चक्षुर्दनिनः अचक्षुदर्शनिनः नो अधिदर्शनिन नो केवल दर्शनिनः। ते खलु भदन्त ! जीवाः किं शानिनोऽज्ञानिनः ? गौतम ! नो शानिन अशानिनः, नियमायणानिनः तद्यथामत्यमानिनः श्रुताशानिनश्च । ते खलु भदन्त ! जीवाः किं मनोयोगिनो चचोयोगिनः फाययोगिन ? गौतम ! नो मनोयोगिनो, नो वचोवोगिनः, काययोगिनः । ते खलु भवन्त जीवाः किं साकारोपयुक्ताः, अनाकारोपयुक्ताः ? गोनम ! साकारोपयुक्ता अपि अनाकारो. , पयुक्ता अपि । ते खलु भदन्त । जीवाः किमाहारमाहरन्ति ? गौतम ! द्रव्यतोऽनन्तप्रदेशिकानि क्षेत्रतोऽसंख्येयप्रदेशावगाढानि कालतोऽन्यतरसमयस्थितिकानि भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति । यदा भावतो वर्णवन्ति थाहरन्ति तदा किम् एकवर्णानि आहरन्ति द्विवर्णानि याहरन्ति त्रिवर्णानि हरन्ति चतुर्वर्णानि थाहरन्ति पञ्चवर्णानि आहरन्ति ? गौतम! स्थानमार्ग प्रतीत्य एकवर्णान्यपि द्विवर्णान्यपि त्रिवर्णान्यपि चतुर्वर्णान्यपि पञ्चवर्णान्यपि आहरन्ति । विधानमार्गण प्रतीत्य कालान्यपि बाहरन्ति यावत् शुक्लान्यपि आहरन्ति । यदि वर्णतः कालान आहरन्ति नदा किम् एकगुणकालानि आहरन्ति यापदनन्तगुणकालानि आहरन्ति ? गौतम ! एकगुणकालान्यपि आहरन्ति यादनन्तगुण. कालान्यपि आहरन्ति एवं यावत् शुक्लान्यपि। यदि भावतो गन्धवन्ति आदरन्ति तदा किमे. कगन्धानि आहरन्ति द्विगन्धानि आहरन्ति ? गौतम ! स्थानमार्गण प्रतीत्य एकगन्धान्यपि आहरन्ति द्विगन्धााप आहरन्ति, विधानमार्गण प्रतीत्य सुरभिगन्धान्यपि आहर्रान्त दुर भिगन्धान्यपि आहरन्ति । यदि गन्धतः सुरभिगन्धानि आहरन्ति तदा किम् एकगुणसुरभिगन्धानि हरन्ति यावदनन्तगुणसुरभिगन्धानि आहरन्ति ? गौतम ! एकगुणसुरभिगन्धानि आहरन्ति यावदनन्तगुणसुरभिगन्धानि आहरन्ति । एवं दुरभिगन्धान्यपि । रसा यथा वर्णाः यदा भावतः स्पर्शवन्ति आहरन्ति तदा किम् एक-स्पर्शानि याहरन्ति यावदप्टस्पर्शानि अहारन्ति ? गौतम ! स्थानमार्गणं प्रतीत्य नो एकस्पानि याहरन्ति, नो द्विस्पर्शानि आहरन्ति नो त्रिस्पानि आहरन्ति चतुःस्पानि आहरन्ति पञ्चस्पर्शानि यावष्टस्पर्शानि आहरन्ति । विधानमार्गणं प्रतीत्य कर्कशान्यपि आहरन्ति यावद्क्षाण्यपि आहरन्ति । यदा स्पर्शतः कर्कशानि आहरन्ति तदा किमेकगुणकर्कशानि आहरन्ति यावदनन्तगुणकर्कशानि आहरन्ति एवं यावद्रक्षाणि नेतव्यानि । तानि भदन्त ! किं स्पृष्टानि आहरन्ति अस्पृष्टानि आहरन्ति ? गौतम ! स्पृष्टानि आहरन्ति नो अस्पृष्टानि आहरन्ति ? तानि भदन्त ! किम् अवगाढ़ानि आहरन्ति अनवगाढानि आहरन्ति ? गौतम ! अवगाढानि आहरन्ति नो अनवगाढानि आहरन्ति । तानि भदन्त ! किम् अनन्तरावगाढानि आहरन्ति परम्परावगाढानि आहरन्ति गौतम! अनन्तरावगाढानि थाहरन्ति नो परम्परावगाढानि आहरन्ति तानि भदन्त ! किम् अणूनि आहरन्ति वादराणि आहरन्ति ? गौतम ! अणून्यपि आहरन्ति वादयण्यपि आहरन्ति तानि भदन्त ! किम् ऊर्चमाहरन्ति, अध आहरन्ति, तिर्यगाहरन्ति ? गौतम ! ऊर्ध्वमपि आहरन्ति अधोऽपि आहरन्ति तिर्यपि आहरन्ति । तानि भदन्त ! किमादौ आहरन्ति मध्ये आदरन्ति पर्यवसाने आहरन्ति ?