________________
• मोक्षशास्त्रम् *
-
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १॥ द्रव्याणि ॥२॥ जीवाश्च ॥ ३ ॥ नित्यावस्थितान्यरूपाणि ॥ ४ ॥ रूपिणः पुद्गला: ॥५॥ आआकाशादेकद्रव्याणि ॥ ६ ॥ निष्क्रियाणि च ॥ ७ ॥ असङ्कयेयाः प्रदेशाः धमाधमैं कजीवानाम् ॥८॥ आकाशस्यानन्ता: ॥ ६ ॥ सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ १०॥ नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कुस्ने ॥१३॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥१४॥ असङ्ख्येयभागादिषु जीवानाम् ॥ १५॥ प्रदेशसंहार विसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ गति स्थित्युपग्रहौ धमाधम्मेयोरुपकारः ॥ १७॥ आकाशस्यावगाहः ॥ १८ ॥ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥१६॥ सुखदुखजीवितमरणोपग्रहाश्च ॥ २०॥ परस्परोपग्रहो जीवानाम् ॥२॥ वर्तनापरिणामक्रिया परत्वापरत्वे व कालस्य ॥२२॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्यो तवन्तश्च ॥ २४ ॥ अणवःस्कन्धाश्च ॥ २५ ॥ भेदसवातेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदादणुः ॥ २७ ॥ भेदसाताभ्यां चाक्षुषः ॥ २८ ॥ सद्दव्यलक्षणम् ॥ २६ ॥ उत्पादव्ययध्रौव्ययुक्त सत् ॥ ३० ॥ तनावाव्ययं नित्यम् ॥ ३१ ॥ अर्पितानर्पित सिद्धेः ॥ ३२ ॥ स्नग्धरुक्षत्वाबन्धः ॥ ३३ ॥ नजधन्यगुणानाम् ॥ ३४॥ गुणसाम्ये सदशानाम् ॥ ३५ ॥ द्वयधिकादिगुणानां तु ॥ ३६ ॥ बन्धेऽधिको पारिणामिकौ च ॥ ३७ ॥ गुणपर्यायवद्र्व्यम् ॥ ३८ ॥ कालश्च ॥ ३६॥ सोऽनन्तसमयः ॥४०॥ द्रव्याश्रया निगुणा गुणाः ॥४१॥ सद्भावः परिणामः ॥ ४२ ॥
इति तत्वार्थाधिगमे मोजशास्त्र पंचमोऽध्यायः ॥५॥