________________
* जिनवाणी संग्रह *
॥ ११ ॥ ज्योतिष्काः सूर्यावन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतराकश्च ॥ १२ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ तत्कृतः कालवि. भागः ॥१४॥ बहिरवस्थिताः ॥१५॥ वैमानिकाः ॥१६॥ कल्पोपपन्ना कल्पातीताश्च ॥१७॥ उपर्युपरि ॥१८॥ सौधार्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक महाशुक्र शतारसहस्रारंवानतप्राणतयोरारणाच्युनयोर्नवसुवेयकेषु विजयवैजयन्तजयन्तापरा. जितेषु सर्वार्थसिद्धौ च ॥१६॥स्थितिप्रभावसुखयु तिलेश्याविशुद्धीन्द्रियावधिविषययोऽधिकाः ॥ २० ॥ गतिशरीरपरिग्रहाऽभिमानतो हीनाः ॥२१॥ पीतपद्मशुक्ललेश्याद्वित्रिशेषेषु ॥२२॥ प्राग्वे यकेभ्यः कल्पाः ॥२३॥ ब्रह्मलोकालयालौकान्तिकाः ॥ २४ ॥ सारस्वतादि त्यवहयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५॥ विजयादिषु द्विचरमाः ॥२६॥ औपपादिकमनुष्येभ्यःशेषास्तिर्यग्योनमयः ॥२७॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाद्धहीनमिताः ॥२८॥ सौधर्मेशानयोः सागरोपमे अधिके ॥ २६ ॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशिभिरधिकानि तु ॥३१॥आरणाच्युतादूर्द्धमेकेकेन नवसु वेयकेषु विजयादिषु सर्वार्थ सिद्धी च ॥ ३२ ॥ अपरापल्योपममधिकम् ॥ ३३ ॥ परतः परतः पूर्वापूर्वानन्तरा ॥ ३४ ॥ नारकाणां च द्वितीयादिषु ।। ३५ ॥ दशवर्ष सहस्राणि प्रथमायाम् ।। ३६॥ भव नेषु च ॥ ३७॥ व्यन्तराणां च ॥३८॥ परापल्योपममधिकम् ॥३॥ ज्योतिष्काणां च ॥४॥ तदष्टभागोऽपरा ॥४१॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२॥
इति तत्त्वार्थाधिगमे मोजशास्त्रे चतुर्थोऽध्यायः ॥४॥