________________
२८) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकतम् ॥ सर्गः १
अदा-दुर्दिवमुक्तियुक्त्या, युक्तं तदीया जनतासु जिह्वा । लोला स्वयं स्थैर्यगुणं तु सभ्या,-नभ्यासयन्ती कुतुकाय किं न ॥५३।।
(०या०) अदादिति ।। तदीया तम्य भगवत. इयं तदीया जिह्वा । जनतामु (ग्रामजनबन्युजसहायात्तल् । ६।२ । २८ । इ. स. समहेऽर्थे तल्) जनानां समहास्तासु जनसमहेषु । उक्तियुक्त्या उक्तीनां वचनानां युक्ति श्चातुर्थ तया वचनचातुर्येण मार्दव (वृवर्णालप्वादे. । ७।१। ६९ । इ. सू. भावेऽर्थे अण) सौकुमार्य मदात् कि लक्षणा जिह्वा मृदु कोमला अत एवं हेतो मार्दव मदात् तु पुन स्वयं लोला चपला सती सभ्याम् (तत्र साधौ । ७।१ । १५ । इ सू. साध्वर्थेय प्रत्ययः) सभायां सावरतान् सभाजनान् स्थैर्यगुणं (वर्ण ढादिभ्यष्टयण च वा । ७।१। ५९ । इ. सू. भावेऽर्थे यण) स्थैर्यमेव गुणस्त अभ्यासयन्ती अभ्यास कारयन्ती -कुतुकाय आश्चर्याय कि न स्यात् अपितु स्यात् । कोऽर्थः स्वामिनो निया सर्वेषां स्वान्त स्थैर्यभाव उत्पद्यते इत्यर्थ. ॥ ५३ ॥
आणं जगजीवन हेतु भूत, नासा यदौनत्यपदं दधाति । कर्मारिमाराय तदप्रवीक्षा-दीक्षादिनात्तेन ततो विधाता ।। ५४ ॥
(०या०) प्राणमिति ।। यत् यस्मात् कारणात् नासा नासिका सा कथंभता आन्नत्यपद (वर्णददादिभ्यष्टयण च वा । ७।१।५९ । इ. सू. भावेऽर्थे व्यम्) उच्चताया स्थान । जगजीवनहेतुभूतं जगतोविश्वस्य जीवनाय हेतुभूत प्राणं दधाति धारयति । तत् तस्मात् कारणात् तेन भगवता । कर्मारिमाराय
मणि एक अस्य शत्रबस्तेषां माराय विनाशाय । आदीक्षादिनार दीक्षाया प्रतच्याया दिनमह तस्मात् आ दीक्षादिनात् दीक्षादिन मारभ्य । तदप्रवीक्षा तस्था नासिकाया अब्रवीक्षा (टो गुरोर्व्यञ्जनात् । ५ । ३ । १०६ । इ सू भावे अ. आत् । २।४ । १८ । इ. सू. स्त्रियामाप् ) अनिरीक्षणं