________________
३५६) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ११
सर्वेषामर्थिजनानामाशापूरकत्वात् । उपकारकतत्वाच्च । कुलीनः कुले भव सत्कुलोत्पन्न: मातृकी जाति: पैतृक कुलमिति । सुवचा शोभनानि वांसि यस्य सः सुवचा सत्यवाक् मधुरवचनभाषणपरगुणग्रहणादित्वात् । रुचायः रुचा कात्या आख्य समृद्ध । तत् तस्मात् कारणात् भवती त्या रत्नगर्भो रत्नं गर्भे यस्याः साता निरीक्ष्य ष्वा भः पृथ्वी तया आख्यया रत्नगर्भा इति नाम्ना अपत्रपतेतरां लतेतराम् ॥ ३४ ॥ सुवर्णगोत्रं वरमाश्रितासि, गर्भ सुपर्वागममुद्वहन्ती । श्रियं गता सौमनसीमसीमां, न हीयसे नन्दनभूमिकायाः ॥ ३५॥ ' (०या०) सुवर्ण इति । हे देवि त्वं नन्दनभूमिकाया नन्दनस्य भूमिका तस्याः नन्दनवनसंबंधिभूमिकातो न हीयसे न होना भवसि । किंविशिष्टा वं सुवर्णगोत्र सुष्टु शोभना वर्णा अक्षराणि यस्मिन् तत् सुवर्ण एवंविधं गोत्रं नाम यस्य सः तं वरं पति आश्रितासि । नन्दनवनभूमिपक्षे वरं श्रेष्ठं सुवर्णगोत्रं मेरुं। त्वं किं कुर्वन्ती सुपागमं सुपर्वाणोदेवा. तेभ्यः आगम आगमनं यस्य स तं एवंविधं गर्भमुद्वहन्ती पक्षे सुपर्वणां देवानां आगमो यस्मिन् तं एवंविधं गर्भ मध्यमुद्वहन्ती । पुन: असीमां नास्ति सोमा यस्या सा तां सौमनसी सुमनसः सन्तः तेषामियं तां सत्सम्बन्धिी श्रियं शोभां श्रिता पक्षे सुमनसः पुष्पाणि तत्संबंधिर्नी शोभां श्रिता एतावता नन्दनभूमे सुमङ्गलायाः सादृश्यं जातम् ॥ ३५ ॥ रिपुद्विपक्षेपिपलं गभीरा, न भूरिमायैः परिशीलनीया। गर्भ महानादममुं दधाना, परैरधृष्यासि गिरेगुहेव ॥३६॥
(व्यां०) रिपु इति । हे देवि त्वं अमुं गौं दधानां धत्ते इति दधाना सती गिरेः पर्वतस्य गुहा इव परैरन्यैरधृष्या न धृष्या अधृष्या (दुपान्त्यादकपिचः । ५-१-४१ । इ. सू. धृष्धातोः कर्मणि क्या कित्वात् गुणाभाव ।) अनाकलनीयासि । किविशिष्टममुं महानादं महान् नादः कीर्तिरूपो यस्य तं पक्षे महानादं सिहं पुन: रिपुद्विपक्षेपि बलं रिपव एव द्विपाः करिणः तेषां क्षेपि तिरस्कारि बलं यस्य तम् । किलक्षणा त्वं गुहा च गभीरा पुनः भरिमायः