________________
३३८) श्रीजैनकुमारसम्भवाय महाव्यम् टी.समलंकृतम्। सर्ग:१० करोतीति वर्णनकृत् तया कुलानागुणश्रेणिवर्णनकृता । सर्वस्यापि तात्विको: कोशाः गुणा एव ज्ञेया इति भावः ॥ ७३ ॥ स्वेशसोहदमवेत्य तन्मुख-खागतैः शरणमंतरिक्षतः । भास्करोदयभयादिवोडुभिः, काप्यास्त शुचिरत्नकंदुकैः ॥ ७४ ॥
(व्या०) स्व इति । कापि स्त्री शुचिरत्नकंदुकः शुचीनि च तानि रत्नानि च पवित्रपमरागस्फटिकवेडुर्थचन्द्रकान्तप्रभृतिरत्नानि तैपां रत्नानां कंदुकैः अरंस्तरेमे । उत्प्रेक्षते भास्करोदयमयात् भास्फरस्य सूर्यस्य उदयस्तस्मात् भयं तस्मात् अन्तरिक्षतः अन्तरिक्षात् आकाशात् शरणं आगतैरुड्डभिनक्षत्रैरिव । किंवत्ता तन्मुखस्य तस्या सुमङ्गलायाः मुखस्य स्वेशसौदं स्वस्य ईश स्वामी चन्द्रः तेन चन्द्रेण सौदं (युवादेरण् । ७-१-६७ । इ. सू. सुहृदयशदात् भावे अण। हदयस्य हलासलेखाण्ये ३-२-९४ । इ. सू. अणि परे हृदयस्य हृदादेशः णित्वात् आदिस्वरवृद्धिः । सुदो भावः सौहृदम् ।) मैत्र्यमवेत्य ज्ञात्वा मुखस्य चन्द्रदर्पणपद्मप्रभृतीनामुपमानं दीयते । अतो मुखस्य चन्द्रेण मैत्र्यं तेन ते शर. णार्थ प्राप्ताः ।। ७४ ॥ को बली जगति कः शुचांपदं, याचितो वदति किमितम्पचः। कीदृशं भटमनः सुरेषु को, भैरवस्तव धवश्च कीशः ॥ ७ ॥ प्रश्नसन्ततिमिमां वितन्वती, काश्चनग्लपितकाञ्चनच्छविः। नाभिभूत इति सैकमुत्तरं, लीलयैव ददति व्यसिस्मयत् ।।७६॥युमिम्
(व्या०) को इति । सा सुमङ्गला नाभिभूत इति एकमुत्तरं लीलयैव ददती ददातीति ददती सती काञ्चनसखी व्यसिस्मयत् विस्मयं प्रापयति स्म । किंलक्षणा सुमङ्गला ग्लपितकाञ्चनप्छवि ग्लपितं च तत् काश्चनं च तद्वत् छवियस्याः । सा द्रुनसुवर्णकान्तिः । किंकुर्वती काश्चन सखी इमां प्रश्नसन्ततिं प्रश्नानां सन्ततिस्ता प्रश्नश्रेणि वितन्वती वितनोतीति वितन्वती तां कुर्वती इमा कां जगति विश्वे को बली बलवान् इति प्रश्नः ना पुरुष इत्युत्तरः । क शुचां पदं शोकानां स्थानमिति प्रश्न अभिभूतः पराभूत. इत्युत्तर । मितंपच मितंपचतीति