________________
३१२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १०
n
इति भयान्ता इव किंकुर्वाणया तब गिरा अहो इति आश्चर्ये दु खितेषु अपि सुखं दत्ते इति ददाना तया ददानया । किंकुर्वती सुधा स्वस्थं स्व तिष्ठतीति तमेव जनं सुखिनं करोतीति सुखयति सुखयतीति सुखयन्ती सुखिनं जनं कुर्वती ॥ ८ ॥
वैधवं ननु विधिर्न्यधात्सुधा - सारमत्र सकलं भवगिरि । पूर्णिमोपचितदेहमन्यथा, तं कथं व्यथयति क्षयामयः ॥ ९ ॥
1
( व्या० ) वैधवमिति । हे नाथ विधिर्विधाता वैधवं विधोरयं वैधवस्तूं चन्द्रसाकं सुधासारं सुधाया अमृतस्य सारस्तं सकलं संपूर्ण अत्र अस्यां भवतो गीः भवद्गी· तस्यां भवद्गिरि त्वद्वाभ्यां न्यधात् ( पिवैतिदाभूस्थः सिचो लुप् परस्मै न चेद् । ४-३-६६ । इ. सू. न्यधात् इत्यत्र सिचो लुप् ) क्षिप्तवान् अन्यथा क्षयामयः क्षय इति आमय क्षयरोगः । तं पूर्णिमोपचितदेहं पूर्णिमायां - उपचितः वृद्धिं गतो देहो यस्य तं पूर्णिमायां पुष्टदेहं चन्द्रं कथं व्यथयति पीडयति ॥ ९ ॥
बद्धधारममृतं भवद्वचो, निर्व्यपायमभिपीय साम्प्रतम् । प्रीतिभाजिनि जनेऽत्र नीरसा, शर्करापि खलु कर्करायते ॥ १० ॥
(५०) बद्ध इति । हे नाथ शर्करा अपि अत्र मल्लक्षणे जने । नीरसा निर्गतो रसो यस्याः सा सती सांप्रतं अधुना खलु निश्चिते कर्करायते ( क्यङ् ३-४-२६ । इ. सू आचारे अर्थे कर्करशब्दात् क्यड् वा डित्वात् आत्मने पदम् । ) कर्कर इव आचरति । किंविशिष्टे जने बद्धधारं बहा धाका यस्य तत् अमृतं अमृतरूपं भवता वचो भवद्वचस्तत् निर्व्यपायं निर्गतो व्यपायो विनो यस्मिन् कर्मणि यथा भवति तथा अभिपीय पीत्वा प्रीतिभाजिनि (अजातेः शीले ५-१-१५४। इ. सू शीलेऽर्थे प्रीतिशब्दपूर्वक्रमज्धातोः णिन् प्रत्ययः णित्वात् वृद्धि । ) प्रीतिं भजतीति प्रतिभाजिन् तस्मिन् ॥ १० ॥
प्राक्कषायकलुषं ततो धनं, घोलनार्पितरसं विनाशि यत् । तद्रिपूकृतघनागम समं, नाम्र भीशवच सामनीदृशाम् ॥ ११ ॥