________________
३१०) श्रीजैनकुमारसम्भवाल्यं महाव्यम् टीकासमलंकृतम् ॥सर्ग:१०
लक्षण वाक् लब्धवर्णजनकर्णकर्णिका लब्धा वर्णा यैस्ते लब्धवर्णाः विद्वांसः लब्धपश्चिते जनाश्च विद्वज्जनास्तेषां कर्णयोः कणिका कर्णाभरणम् । पुनः पाञ्छितार्थफलसिद्धिवर्णिका वाञ्छिताश्चते अर्थाश्च तेषां फलानि तेषां सिद्धेवर्णिका । पुनः धृतजडिम्नि जडस्य भावो जडिमा जाडयं धृतवत् जाडयं यस्मिन् स तस्मिन् घृतजाडये पुरुष पावकस्याग्नेरियं पावकी वह्निसंबधिनी दीधिति. कान्तिः ॥२॥ रूपमीशसमकं दिदृक्षते, तावकं यदि सहस्रलोचनः । ईहते युगपदञ्चनं च ते, चेत् सहस्रकर एव नापरः ॥ ३ ॥
(व्या०) रूपमिति । हे ईश तावकं तवेदं रूपं यदि समकं समकालं दिदृक्षते द्रष्टुमिच्छतीति दिदृक्षते विलोकयितुमीहते तर्हि सहस्र लोचनानि नेत्राणि यस्य स सहस्रलोचनः इन्द्रः एव नापर. । दिदृक्षते इत्यत्र स्मृदृ। इति सूत्रेणात्मनेपदं भवति । च अन्यत् चेत् यदि ते तव युगपत् समकालं अञ्चनं पूजन ईहते पाञ्छति । तदा सहस्रं कराः किरणा यस्य स सहस्रकरः सूर्यः एव नापरः ॥ ३ ॥ यो बिभर्ति रसनासहस्रक, द्वथाहतत्वमधिरोप्य सोऽप्यलम् । देव वक्तुमखिलान ते गुणा-न्मादृशः किमबलाजनः पुनः ॥ ४ ॥
(व्या०) य इति । हे देव योद्वयाहतत्वं द्वाभ्यामाहतत्वं द्विगुणत्वं अधिरोप्य रसनासहस्रं रसनानां सहस्रं तत् जिह्वासहस्रं बिभति । सोऽपि शेषनागः तव अखिलान् समस्तान् गुणान् वक्तुं न अलं न समर्थ । माशो मत्सदृश अबला एवं जनः स्त्रीजन: किं पुन: ॥ ४ ॥ धीधनोचित भवद्गुणस्तवा-द्वारकेऽपि निजजाडयचिन्तने । उच्यते किमपि नाथ यन्मया, भक्तितन्मयतया तदर्थताम् ॥ ५॥
(व्या०) धी इति । हे नाथ मया निजजाध्यचिन्तने निजस्य जाडयं मुर्सत्वं तस्य चिन्तने आत्मीयमूर्ख वचिन्तने। धीधनोचितभवद्गुणस्तवान् धीः धनं येषां ते धीधना विद्वांसः तेषां उचिता ये भवतो गुणास्तेषां स्तवान् विद्धजनयोग्यावदीयगुणस्तवान् निवारयतीति निवारकं तस्मिन् सत्याप किमपि उच्यते