________________
श्रीजनकुमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३०९
बहिनहि अकरिष्यत् । तत् तदा इह वक्षसि आनन्दयुग्मं आनन्दयोयुग्मं कथं अमास्यत् । किं कुर्वाणं आनन्दयुग्मं लास्थलीलां लास्यस्य तांडवनृत्यस्य लीला धत्ते इति दधानम् । पुन: प्रभुवचनसुताप्तिस्फीतं सुतस्याप्तिः सुताप्तिः प्रभुवचनं च सुतातिश्च प्रभुवचनसुताप्ती ताभ्यां स्फीतं प्रौढम् ॥ ८० ।। इतिश्रीमदचलगच्छकविचक्रवत्तिश्रीजयशेखरसूरिविरचितस्य श्रीजैनकुमार
संभवमहाकाव्यस्य तच्छिष्यश्रीधर्भशेखरमहोपाध्यायकृतायां टीकायां श्रीमाणिक्यसुन्दरशोधितायां नवमसर्गव्याख्या
समाता ॥ ९ ॥
॥ अथ दशमः सर्गः प्रारभ्यते ॥ साथ नाथवदनारविन्दतो, वामपन्दमुपजीव्य निर्भरम् । उज्जगार मृदुमंजुलां गिरं, गौरवादिति सदालिवल्लभा ॥१॥
(व्या०) सा इति । अथानन्तरं सा सुमङ्गला गौरवात् गुरोर्भावो गौरवं तस्मात् मृदु मंजुला मृद्धीचासौ मंजुला च तां सुकुमारां मनोज्ञा गिरं वाणी उज्ज. गार उद्गिरतिस्म । किंलक्षणा सुमङ्गला सदा सर्वदा आलिवल्लभा आलीनां सखीना वल्लमा अभीष्टा अलिवल्लभा भ्रमरीसमाना । किंकृत्वा नाथवदनारविन्दतः नाथस्य श्रीपभस्वामिनो वदनं मुखमेव अरविन्दं कमलं तस्मात् स्वामिमुखकमलात् वाक् एच मरन्दरत वाड्मरन्दं वचनमकरन्दं निर्भर अत्यर्थ उपजीव्य निपीय ॥ १ ॥ लब्धवर्णजनकर्णकर्णिका, वाञ्छितार्थफलसिद्धिवर्णिका। दीधितिघृतजडिस्नि पावकी, वाग विभो जयति कापि तावकी ॥२॥
(व्या०) लब्ध इति । हे विभो हे स्वामिन् कापि तावकी (वा युष्मदस्मदोऽत्रीनौ युष्माकास्माकं चास्यैकावेतु तवकममकम् । ६ । ३ । ६७ । इ. सू युष्मद अञ् प्रत्ययः एकवचने तवकादेश । अणजेयेकण न स्नहिताम् । २ । ४ । २० । इ सू स्त्रियां डो ।) तव इयं त्वदीया वाक् जयति । किं