________________
___ २) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः१
ध्यात्वा श्रीसारदादेवीं, नत्वा श्रीसद्गुरूनपि ।
कुमारसंभवस्येयं, वित्तिलिख्यते मया ॥१॥ यस्मै काव्ययुगप्रदा च वरदा श्रीशारदा देवता,
श्रीमज्जैनकुमारसंभवमहाकाव्यादिकर्ता कलौ । सिद्धान्तोदधिचन्द्रमाः सहृदयश्रेणी शिरःशेखरः
सोऽयं श्रीजयशेखराख्य मुगुरुजीयाज्जा गन्मङ्गलम् ॥ २ ॥ लौकिककाव्यानुसारेण अस्त्युत्तरस्यां दिशीति सताक्षराणि वर्तन्त इति न ज्ञातव्यं किन्तु श्रीस्तम्भतार्थ श्रीमतञ्चलग छगगनप्रभाकरेग सकलविद्वजनचित्तचकोरनिशाकरेण यमनियमासनप्राणायामाचष्टांगयोगविशिष्टेन समाधिध्यानोपविटेन निजमतिजितसुरसूरिणा परमगुरुणा श्रीजयशेखरसूरिणा चन्द्रमंडलसमुपलराजहंसस्कंधोषितया चंचचलकुण्डलायाभरणविभूपितया भगवत्या श्रीमरित्या वत्स त्वं कविचक्रवत्तित्वं प्राप्य निश्चिन्त इवासीनः किं करोपीति प्रोच्य
अस्त्युत्तरस्यां दिशि कोशलेति, पुरी परीता परमर्द्धिलोकैः। निवेशयामास पुरः प्रियायाः, स्वस्याच यस्यामिव यां धनेशः॥१॥ संपन्नकामा नयनाभिरामाः, सदैव जीवत्प्रसवा अवामाः। यत्रोज्झितान्यप्रमदावलोका, अष्टशोकान्यविशन्त लोकाः ॥२॥
एतदाय काययुग्मं दत्वा विहितसुरासुरसे चनश्रीयुगादिदेवसत्कजन्मबालकलियौवन महेन्द्रस्तवन सुनन्दा सुमङ्गलापाणिग्रहण चतुर्दशस्वमदर्शनभरतसमवप्रातवर्णनपुरस्सरं श्रीजैनकुमारसंभवं महाकाव्यं कारितं तथा लौकिककुमारसंभवे कुमारः कार्तिकेय तस्य संभवस्तथान कुमारो भरतस्तस्य संभवो ज्ञेयः । पुत्राश्च सर्व कुमारा उच्यन्तै अत: कुमारसंभव इति नाना महाकाव्यमत्रापि ज्ञायते । तेनादी च्यात्वा श्रीसारददिवामिति प्रारम्भे न दुष्टम् ।।