________________
श्रीजनकुमारसम्भवाय महाकाव्यम् टीकासमलकतम् ॥ सर्ग. ५ (१९३
बुद्धिं शुद्धामिति मतिमतामुत्तमेभ्यः शचीन्द्रौ,
भत्तयावेशाद्विशदहृदयौ प्राभृतीकृत्य तेभ्यः॥ खागस्त्यागं चरणलुठनैः क्लप्तवन्तौ दिवं तो,
द्राग भेजाते चिरविरहतोऽत्याकुलस्थानपालाम् ।। ८४ ॥
(व्या०) बुद्धिमिति । तौ शचीन्द्रौ शची च इन्द्रश्च मतिमतां मतिरस्ति एपामिति मतिमन्तस्तेपा बुद्धिमतां उत्तमभ्यस्तेभ्यो वधूवरेभ्य इति पूर्वोक्तां शुद्धां बुद्धिं भक्तेरावेशस्तस्मात् भक्त्यावेगात् न प्राभृतं अप्रामृतं प्राभृतं कृत्वेति प्रामृतीकृत्योपदीकृत्य द्राक् शोघ्र दिवं भेजाते स्वर्लोक गतौ । किंलक्षणौ शचीन्द्रौ विशदं हृदयं ययोस्तौ विशदहृदयौ निर्मलमानसौ । स्वस्य आग• अपराधस्तस्य त्यागस्त आत्मीयापराधपरिहारं चरणेषु पादेषु लुटनैः चरणनमस्कारैः क्लुप्तवन्तौ । किलक्षणां दिवं चिरविरहतः दीर्धकालविरहात् अत्याकुलाः स्थानपालाः यस्यां सा ताम् ॥ ८४ ॥ अन्येऽपीन्द्राः सकलभगवत्कार्यभारे धुरीणं,
सौधर्मस्याधिपतिमधरमप्युत्तरं भावयन्तः । धन्यमन्यास्त्रिभुवनगुरोर्दर्शनादेव देवैः,
साकं नाकं निजनिजमयुनिर्भरानन्दपूर्णाः ॥ ८५ ॥ इतिश्रीसूरीश्वरश्रीजयशेखरसूरिविरचिते श्रीजैनकुमारसंभवमहाकाव्ये
पञ्चमः सर्गः (व्या०) अन्य इति । अन्येऽपि इन्द्राः ईशानेन्द्राद्या निर्भरानन्दपूर्णा निर्भरानन्देन अतिशयानन्देन पूर्णा सन्त देवै साकं सार्द्ध निजं निजं नाकं आत्मीयात्मीयं चलाक अयुगता. किंकुर्वन्त सकलभगवत्कार्यभारे सकलानि समप्राणि च तानि भगवत' कार्याणि तेषां भारस्तस्मिन् धुरोणं (धुरं वहति इति धुरीणः । वामाचादेरीनः । ७ । १ । ४ । इ. सू. केवल धुरशब्दादपि ईनप्रत्ययो भवति इति पंक्ति. 1) धुर्य सौधर्मस्य अधिपतिं सौधर्मेन्द्रं अधरमपि अधस्तनमपि उत्तरं उत्कृष्टं भावयन्तः । किलक्षणा इन्द्रा त्रयाणां भुवनानां समाहार. त्रिभुवनं