________________
जैनमारसम्भवाख्यं महाव्यम् टीकासमलंधत्तम् ॥ सर्गः ३ (९५
तस्य नाथस्तस्य संबोधन हे लोकनाथ लोकानां जनानां स्थितिः पाणिग्रहणादिरूपा लोकस्थित्तिः (स्था वा । ५-३-९६ । इ. सू. स्थाःधातो: ति: दोषोमास्थ इ: ४-४-११ । इ. स. स्थाधातोः इः । ) तां मर्यादां पालय ॥ २५ ॥ स्वयेव याऽभूत्सहभूरभूमि-तमोविलासस्य सुमंगलेति । राकेव सा केवलभास्वरस, कलाभृतस्ते भजतां प्रियात्वम् ॥२६॥
(व्या०) त्वयेति ॥ हे नाथ या सुमङ्गला त्वयैव सहभः (सह भवतीति सहभू. क्वि५ । ५-१-१४८ । इ. स. भूधातोः चिप् ) सहजन्मा अभूत् किं विशिष्टा सुमङ्गला तमस पापस्य विलासो (भावाऽकोंः । ५-३-१८ । इ. स. विपूर्वकलसधातीवि धम् ) विस्तारस्तस्य पापविस्तारस्य अभूमिरस्थान निष्पापेत्यर्थः । सा सुमङ्गला ते तव प्रियात्वं कलत्रत्वं भजताम् । किं विशिष्टस्य ते केवलमारपरस्य (स्थेशमासपिसकसो वरः। ५-२-८१ । इ. स. मांसधातोः परप्रत्ययः ) सकलजगदुद्योतकस्य । का इव राका इव पूर्णिमा इव यथा राका पूर्णिमा कलामृतः (कला बिभतीति कलामृत् क्वि । ५-१-१४८ । इ. सू. क्वि५ ) चन्द्रस्य प्रियात्वं भजते सोऽपि भास्वरोभवेत् राकापि तमोविलासस्य अभूमिभवति ॥ २६ ॥ अवीवृधयां दधदकमध्ये, नाभिः सनामिजलधर्महिना। प्रिया सुनन्दापि तवा सा श्री-हरिवारिष्टनिदनस्य ॥२७॥
(व्या०) अवीवृधदिति ॥ हे नाथ नाभियों सुनन्दा अंकस्य मध्यं तस्मिन् अंकमध्ये उत्संगोपरि अवीवत् वर्धयति स्म । किं लक्षणो नाभिः महतो भावो महिमा तेन महिम्ना (पृथ्वादेरिमन् वा ३-१-५८ । इ. स. महत् शब्दात् इमन् प्रत्ययः व्यन्तस्वरादेः । ७-४-४३ । इ. सू. इमनि परे महत् शब्दस्य अत् अंशस्य लोपः) विस्तारेण जलधेः (व्याप्यादाधारे। ५-३-८८ । इ. सू. जलपूर्वकधाधातो: किः इत् पुसिचातो छ । इ. स. धाघातोराकारस्य लोपः ।) समुद्रस्य सनाभिः सहश: । सा सुनन्दा तव प्रिया अस्तु । कस्येव हरेनारायणस्येव यथा हरेः श्रीः लक्ष्मीः प्रिया स्यात् । कि विशिष्टस्य तव हरेश्व