________________
શ્રીનેનકુમાલક્ષ્મવાદ્ધ મદાવ્યમ્ દ્રીપાલમઋતમ્ ॥સર્વઃ રૂ (૨૩
इ. सू. आप अस्था यत्तत् क्षिपकादीनाम् । २ - ४ - १११ । इ. सू. अस्य इः । ) तस्याः मुक्तित्रियाः विरागतां नीरोगत्वं किं शंकशे । प्रभुः स्वामी प्रभुतेऽपि प्रचुरेऽपि अवरोधने अन्तःपुरे आगसामपराधानां पदं स्थानं अपराधस्थानं न भवति चेत् यदि क्रमं न लुम्पति । सांप्रतं पाणिग्रहणं कुरु क्रमेण पश्चात्तामपि भजेरिति भावः ॥ २१ ॥
अद्यापि नाथः किमसौ कुमारो, निष्कन्यकं किं परिवर्त्यवन्याम् । भृत्योऽतरंगोऽस्य हरिर्विचेता, यायावरं वेत्ति न यौवनं यः ॥ २२ ॥ इत्थं मिथः पार्षदनिर्जराणां, कथाप्रथाः कर्णकटूनिपीय । तेषां प्रदाने प्रचलोत्तरस्य दरिद्रितोऽहं त्वयि नायकेऽपि ॥ २३ ॥ युग्मम् ॥
( ०या० ) अद्यापीति । हे नाथ अहं त्वयि नायकेऽपि अधिपतौ सति तेषां सम्यदेवानां प्रबलोत्तरस्य प्रदाने दरिद्रितः दरिद्रो जातः किं कृत्वा इत्थं अमुना प्रकारेण पार्षदाश्वते ( पर्षद साधवः पार्षदाः पर्षदोप्य । ७-१-१८ । इ. सू. साधो अणू वृद्धिः स्वरेष्वादे णिति तद्धिते । ७-४-१ । इ. सू. आदिस्वरवृद्धि: 1) निर्जराश्च ( प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानकान्ताद्यर्थाः प्रथमाद्यन्तैः । ३-१-४७ | इ. सू. समासः जरायाः निष्क्रान्ताः निर्जराः । पार्षदाचते निर्जराश्च विशेषणं विशेष्यणैकार्थं कर्मधारयश्च । ३-१-९६ । इ. सू. समासः कर्मधारय ' ) तेषां पार्षदनिर्जराणां सम्यदेवानां मिथ' परस्परं कर्णयोः श्रोत्रयोः कटवस्ताः कर्णकटू कथानां (भीषिभूषिचिन्तिपूजिक थिलुम्बि चविस्पृहितोलिदोलिम्यः । ५ -३ - १०९ । इ. सू. कथिधातोः अप्रत्यय आत् इ.सू. आप् ) प्रथाः (पितोऽड् । ५ -३ - १०७ । इ. सू. प्रथधातोः अ आत् इ. सू. आपू ) कथा प्रथास्ताः निपीय पीत्वा इत्थमिति किं अद्यापि असौ नाथः स्वामी किं कुमारः अपरिणीतः किमवन्यां पृथिव्यां निष्कन्यकं कन्यका-नामभावो परिवर्ति । (व्यञ्जनादरेकरवराद् भृशाभीक्ष्ण्ये यड् वा । ३ - ४ - ९ । इ. सू. वृत्धातोर्यङ्प्रत्ययः सन्यश्च । ४-१-३ | इ. सू. द्वित्वं बहुलं लुप् ।