________________
३७०
तत्त्वार्थ-सूत्र आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृत्तिसमन्वाहारः ॥३१॥ वेदनायाश्च ॥३२॥ विपरीतं मनोज्ञानाम् ॥३३॥ निदानं च ॥३४॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ॥३॥ हिंसानतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥३६।। आज्ञाऽपायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ॥३७॥ .. उपशान्तक्षीणकषाययोश्च ॥३८॥ शुक्लेचाद्य पूर्व विदः ॥३६॥ परे केवलिनः ॥४०॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥४१॥ तत् त्र्येककाययोगायोगानाम् ॥४२॥ एकाश्रये सवितर्के पूर्वे ॥४३॥ अविचारं द्वितीयम ॥४४॥ वितर्कः श्रुतम् ॥४॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥४६।। सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽ सङ ख्येयगुणनिर्जराः ॥४७॥ पुलाकवकुशकुशीलनिन्थस्नातका निर्ग्रन्थाः ॥४८॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थान विकल्पतः साध्याः ॥४६॥