________________
३६८
शेषाणामन्तर्मुहूर्तम् ||२१|| विपाकोऽनुभावः ||२२||
स यथानाम ||२३|| ततश्च निर्जरा ||२४||
तत्त्वार्य-सूत्र
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्त प्रदेशाः ||२५|| सद्यसम्यक्त्व हास्य रति पुरुषवेदशुभायुर्नामगोत्राणि
पुण्यम् ||२६||
नवमोऽध्यायः
आस्रवनिरोधः संवरः ||१|| सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रः ॥२॥
तपसा निर्जरा च ॥३॥
सम्यग्योगनिग्रहो गुप्तिः || ४ || ईर्याभाषणादाननिक्षेपोत्सर्गाः समितयः ||५||
उत्तमः क्षमामार्दवार्जव शौच सत्य संयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ||६||
अनित्याशरणसंसारैकत्वान्यत्वा शुचित्वास्रवसंवरनिर्जरालोक
वोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥
मार्गाच्यवननिर्जराथं परिसोढव्याः परीषहाः ||८|| क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्या रतिस्त्रीचर्यानिषद्याशय्या
क्रोशवधयाचनाऽलाभरोगतृणस्पर्श मल सत्कारपुरस्कारप्रज्ञा
ज्ञानादर्शनानि ॥ ॥ सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ||१०||