________________
तत्त्वार्थ-सूत्र
मंत्रभेदाः ॥२१॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहारा: ।।२२।। परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीड तीवकामाभिनिवेशा: ।।२३।। क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२४॥ अधिस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥२५॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुदगलक्षेपाः ॥२६॥ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ।।२७।। ... योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥ अप्रत्यवेक्षिताप्रमाजितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥२६॥ सचित्तसंवद्धसंमिश्राभिषवदुष्पक्वाहारा: ।।३०।। सचित्तनिक्षेपपिघानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१॥ जीवितमरणाशंसामित्रानुरागसुखानुवन्धनिदानकरणानि ॥३२॥ अनुग्रहार्थ स्वस्यातिसर्गो दानम् ।।३३।। विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥३४॥
अष्टमोऽध्यायः मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥१॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥२॥ सवन्धः ॥३॥ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥४॥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥५॥