________________
तत्त्वार्थ-सूत्र तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्यस्य ॥१२॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः शान्तिः शौचमिति । सद्यस्य ॥१३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥१४॥ . कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥१५॥ वहारम्भपरिग्रहत्व च नारकस्यायुषः ॥१६॥ .. माया तैर्यग्योनस्य ।।१७।। अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥१८॥ निःशीलवतत्वं च सर्वेषाम् ॥१६॥ सरागसंयमसंयमासंयमाकामनिर्जरावालतपांसि देवस्य ॥२०॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२१॥ विपरीतं शुभस्य ॥२२॥ दर्शनविशुद्धिविनयसंपन्नताशीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्यकरणमहदाचार्यवहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्गिप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥२३।। परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैगर्गोत्रस्य ॥२४॥ तद्विपर्ययो नीचैव त्यनुत्सेको चोत्तरस्य ॥२५॥ विघ्नकरणमन्तरायस्य ।।२६।।