________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः ॥ 'पच्चुप्पन्नगाहा' साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थः, तद् ग्रहीतु शीलमस्येति प्रत्युत्पन्नप्राही ऋजुसूत्रो नविधिमुणितव्यः, तत्रातीतानागतयाभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमान काल भावि वस्तु सूत्रयतीति ऋजुसूत्रः, अतीतनागतयो विनाशानुत्पत्तिभ्यामसत्वात्. असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु - अवक्र' श्रुतमस्येति ऋजुश्रुतः' शेषज्ञानैमुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैक मिच्छतीत्यर्थः, उक्तंच-सुयनाणे अनिउतं केवलेतयाणंतरं । अप्पणो य परेसिं च, जम्हा तं परिभावगं ॥ छाया ।। श्रुतज्ञाने च नियुक्त (नियोक्त्तु योग्य) केवलेतदनन्तरम् । आत्मनश्च परेषाश्च यस्मात्तत् परिभावकम् ॥१॥ त्ति, अयश्च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति. परकीयस्य स्वाभिमत कार्यसाधकत्वेन वस्तुतोऽसत्वादिति, अपरश्च-भिन्न लिगैभिन्नवचनैश्च शब्दैरेकमपि वस्त्यभिधीयते इति प्रतिजानीते--
यथा तटः तटी तटमित्यादि, तथा गुरुगुर्वः इत्यादि, तथा इंद्रादेर्नामस्थापनादिभेदान् प्रतिपद्यते, वन्क्ष्यमाणनयस्त्वतिविशुद्धत्वात् लिंगवचनभेदात् वस्तुभेदं प्रतिपत्स्यते, नामस्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः ॥ अथ शब्द उच्यते-तत्र “शप
आक्रोशे" शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थ मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छन्दः, अयश्च प्रत्युपत्पन्न वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषित्तरमिच्छति, तथाहि तटस्तटी तटमित्यादि शब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिंगवृतित्वात् ,
For Private And Personal Use Only