________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम टीका:-दर्शनावरणकम क्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्त च--'जं सामन्नग्गहणं भावाणं नेय कट्टमागारं । अविसेसिऊण अत्थे दंसणमिइ बुच्चए समए ।।१।। तदेवात्मलो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम् , इदंच चक्षुर्दर्शनादिभेदाच्चतुर्विधम् , तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिन:-चक्षुदर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम् , भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् , उक्तच-"नि विशेषं विशेषाणां ग्रहोदर्शनमुच्यते” इत्यादि, चक्षुर्जशेषेन्द्रिय चतुष्टयं मनश्चचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमात् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः-अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे भवति, आत्मनि-जीवे भावः-संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवतीत्यर्थःइदमुक्त भवति-चक्षुरप्राप्यकारि ततो दुरस्थर्माप स्वविषयं परिच्छिनत्तीत्यस्याथेस्य ख्यापनार्थ घटादिषु चक्षुर्दर्शनं भवतीति पूर्व विषयस्य भेदेनाभिधानं कृतं, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रिय संश्लेष द्वारेण जीवेन सह सम्बद्धमेव विषयं परिचछिन्दन्तीत्येतदर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति, उक्त च- "पुढसुणेइ सह रुवं पुण पासई अपुट्ठतु” इत्यादि । अवधेदर्शनमवधिदर्शनम् , अवधिदर्शनिन:- अवधिदर्शनावरणक्षयोपशमसमुद्भू तावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रुपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु,यतोऽ
For Private And Personal Use Only