________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
१२६
5
छाया पुद् गलाः प्रत्यक्षत एव सिद्धाः सर्वस्यापि स्थूलवस्तुनः छाया, अध्यक्षतः प्रतिप्राणि प्रतीतेः अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तद् दृश्यते तस्मादवसीयते सन्ति छाया पुद्गलाः इति, ते च छायापुद्गलास्तत्तत् सामग्रीवशाद् विचित्र परिणमनस्वभावास्तथाहि ते छाया पुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसंबंधि द्रव्याकारमाविभ्रारणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णामाः, एतच्च प्रसरति दिवसे सूर्य्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एवं सिद्धं त एवं छाया - परमाणवः श्रादर्शदिभास्वर द्रव्यप्रतिगताः सन्तः स्वसंवंधिद्रव्याकारमादधानाः यादृग् वर्णः स्वसम्बन्धिनिद्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वभ्यक्षतः सिद्धं ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणवः आदर्शमुपसंक्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिविम्बशब्दा वाच्या अत उक्तंन शरीरं पश्यति किन्तु प्रतिभागमिति, नैवेतत् स्वमनीषिकाविजृम्भितं, यत उक्तमागमे - 'सामा उ दिया छाया अभासुरगता निसिं तु कालाभा । सा चैव भासुर गया सदेह वरणा मुणेयव्या || १ || छाया - श्यामा तु दिवा छाया अभास्वरता निशि तु कालाभा । सैव भास्वरगता स्वदेहवर्णा ज्ञातव्या ॥ १ ॥ जे आदरिसरसन्तो देहावयवा हवंति संकेता | तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥ २ ॥ छाया - ये आदर्शस्यान्तर्देहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलम्भः प्रकाशयोगात् नेतरेषाम् ॥२॥ मूलटीकाकारोऽप्याह - यस्मात् सर्वमेवहि ऐन्द्रियकं स्थूलं
"
For Private And Personal Use Only
―