________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
भिप्रायो यथा-मुधालाभाभावात् तान् क्रीणसि त्वमेवमहं तां विना तदभा. वात्तां करोमीति, इह च मुधा यवालास्भस्य क्रयणे हेतोः सतो दृष्टान्ततयोप न्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति । अथ ज्ञातानन्तरं सातवद्धतोः साध्यसिद्धयङ्गत्वात् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाहव्यक्तं चैतत्, नवरं हिनोति गमयति ज्ञयमिति हेतुः -अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च-"अन्यथाऽनपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता ॥१॥” इति, प्रागुक्तश्च हेतु पर्यनयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तरमृततद्भाव इति, स चैकलक्षणोऽपि किञ्चविशेषाचतुर्धा, तत्र 'जावए त्ति या पयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकेकमुष्ट लिण्डं दात्तव्यमिति दत्ताशिक्षस्य पत्युस्तद्विक्रयार्थमुजयनोप्रेषणोगयेन विटा सेवायां कालयापनां कृतवतीति यापकः, उक्तश्च – 'उम्भामिया य महिला जाव' गहेउम्मि उट्टलिंबाई ॥, इति, इह वृद्धाख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतु: कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, स चेदृशः संभाव्यते-सचेतना वायवः अपरप्रेरणे सति तियनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति, अयं हेतुर्विशेषणबहुलतय परस्य दुरचिगमत्वाद् वादिनः कालयापनों करोति, स्वरूपमस्यानवयुद्धयामानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुशकोति, अतो भवत्यस्माद् वादिनः कालयापनांत, अथवायोऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणन्तरसव्यपेक्षत्वान्न, झगित्येवसाध्यप्रतीतिं करोति
For Private And Personal Use Only