________________
॥ अथ एकविंशोऽधिकारः ॥
अमुं विचारं मुनयः पुरातना, ग्रन्थेषु जग्रन्थुरतीव विस्तृतम् । ' परं न तत्र द्रुतमल्पमेधसा- *मैदंयुगीनानां मतिः प्रसारिणी॥१॥ मया परप्रेरणपारवश्या-दजानतापीति विधत्य धृष्टताम् । प्रश्ना व्यतायन्त कियन्त एते, परेण पृष्टाः पठितोत्तरोत्तराः ॥२॥ शैवेन केनापि च जीवकर्मणी, आश्रित्य पृच्छाः प्रसभादिमाः कृताः। माभूज्जिनाधीशमतावहेले-त्यवेत्य मञ्जूत्तरितं मयैवम् ॥ ३ ॥ यथा यथा तेन हृदुत्थतर्क-माश्रित्य पृच्छाः सहसाऽक्रियन्त । तथा तदुक्तं पुरतो निधाय, मया व्यत्तायुत्तरमाहतेन ॥ ४ ॥ मया विदं केवललौकिकोक्ति-प्रसिद्धमाधीयत पृष्ठाशासनम् । पुराणशास्त्राहितबुद्धयस्तु, पुरातनी युक्तिमिहाद्रियन्ताम् ॥ ५ ॥ परं विचारेऽत्र न गोचरो मे, प्रायेण मुह्यन्ति मनीषिणोऽपि । अमुं विना केवलिनं न वक्तं, व्यक्तोऽपि शक्तः सकलश्रुतेक्षी॥६॥ अतस्तु वैयात्यमिदं मदीय-मुदीक्ष्य दर्न हसो विधयः । वालोऽपि पृष्ठो निगदेत्प्रमाणं, वाधैर्भुजाभ्यां स्वधिया न किं वा।।७॥ यद्वेदमेवात्मधियां समस्तु, शास्त्रं यतः शासनमस्त्यथास्मात् । यदुक्तिप्रत्युक्तिनियुक्तियुक्तं, तद्वाभियुक्ताः प्रणयन्ति शास्त्रम् ॥८॥ यद्वास्ति पूर्वेष्वखिलोऽपि वर्णा-नुयोग एतन्न्यगदन्विदांवराः । इयं तदा वर्णपरम्परापि, तत्रास्ति तच्छास्त्रमिदं भवत्वपि ॥९॥
-
* मैदंयुगीना न?