________________
(७२) तत्कालनाशाय तथैकमासात् । दिमासषण्मासकवर्षकालदिवर्षवर्षत्रयतो ऽपि नाशकृत् ॥ २७ ॥ इत्थं च कर्माण्यपि भूरिभेदभिन्नस्थितीनीह भवन्ति कर्तुः । निजे निजे काल उपागते तु तादृक् फलं तानि वितन्वते स्वतः ।। २८ ।। सिद्धो रैसो वैष भवेदसिद्धः सर्वो गृहीतो ऽभ्यमितेन केनचित् । समागते तत्परिणामकाले दुःखं सुखं वा भजते तदाशकः ॥ २९ ॥ तथात्मगा दुःपिटिका च वालको दुर्वातशीताङ्गकसन्निपाताः। स्वयं त्वमी कालवलं समेत्य तदन्तमात्मानमतिव्यथन्ते ॥ ३०॥ अमी तथैते ऋतवो ऽपि सर्वे ५५ कर्मणां कारकस्य । ५६ यादृशं कर्म स्याद्यदि शुभं कर्म तदा शुभं फलं. यद्यशुभं कमोशुभं फलं कुर्वन्तीति भावः । ५७ पकः । ५८ पारदः । ५९ रोगितेन । ६० परिपाक । ६१ सिद्धस्यासिद्धस्य वा पारदस्य भक्षकः । ६२ दुष्टा स्फोटिका दुःपिटिका निर्नामिकायेत्यर्थः। ६३ पीडयन्ति ।