________________
( ६१ )
भोगो ऽप्यनन्ते ऽपगते हि काले निगोदजीवैर्न हि जातु पूर्यते ॥ ३७ ॥ पूज्या निगोदासुमतां मनो ऽस्ति नो केनेदृशं तन्दुलमत्सवद् भृशम् | प्रजायते कर्म यतस्त्वनन्तकालप्रमाणं परिपाक एवम् ॥ ३८ ॥ सत्यं यदेतन्न मनो ऽस्त्यमीषां तथापि चान्योन्यविबाँधनोत्थम् । दुष्कर्म तूत्पद्यतएव द्विषं निहन्त्येव यथा तथार्हतम् ।। ३९ ।। सञ्ज्ञाश्चतस्रोऽप्यथवर्षे मिथ्या योगेंः कषायो विरतिश्च सन्ति । इमानि सर्वाण्यपि कर्मबन्धबीजान्यनन्तैस्त्वधिको विरोधः ॥ ४० ॥ एवं निगोदामतां निदर्शनैः
-
२३ पीडन । २४ यथा । २५ विषं ज्ञातमज्ञातं वा भक्षितं मारयति तत्र ज्ञाते तु स्वयमन्यो वा कश्चिदुपायमपि कृत्वा जीवेदपि परमज्ञातं तु मारयत्येत्रेति शेषः अत एवैषां मनो विना समुत्पन्नं परस्परवैरमन्तकाले ऽपि भुज्यमानं न पूर्ण स्यादिति तत्त्वम् । २६ निगांदेषु । २७ मिथ्यात्वम् । २८ काययोगादिकः ।