________________
( ५९ ) अत्यन्तसङ्कीर्णनिवासलाभादन्योन्यसम्बद्धनिकाच्यवैराः । प्रत्येकमप्येष्वभिवर्तमानअनन्तजीवैस्तत उग्रवैरम् ॥ २८ ॥ एकस्य जन्तोर्यदपीह वैरमेकेन जीवेन तदप्यजेयम् । एकस्य जन्तोर्यदनन्तजीवैवैरं भवेच्चेत्तदनन्तकालैः ॥ २९ ॥ कथं न भोग्यं पुनरेधमानं तदेव तेनैव ततो ऽप्यनन्तम् । एवं निगोदासुमतां न वैरं सान्तं न दुष्कर्म च नापि कालः ॥ ३०॥ लोके यथा गुप्तिगृहाश्रितानामन्योन्यसंमर्दनिपीडितानाम् । प्रत्येकमाबद्धनिकामवैरभाजां नराणां किल कर्मबन्धः ॥ ३१ ॥ भावस्त्वमीषामलमीदृशः स्याद्यदेषु कश्चिन्मियते ऽपयाति वा । तदाहमासीय सुखेन भक्ष्य२१ एकमेकं मत्यात्मनात्मानं संविश्य २ एकीभूय तिष्ठन्ति ।