________________
ते केन नायान्ति दृशः पथं यके घनीभवन्तो ऽपि न बाधयन्ति ॥ १४॥ सत्यं निगोदा अतिसूक्ष्मनामकर्मोदयात्सूक्ष्मतरा भवन्ति । एकां तनुं ते ऽधिगता अनन्ता-. स्तथाप्यदृश्या ननु चर्मदृग्भिः ॥ १५ ॥ यथोग्रेगन्धामृतदेहिरामठादिकोत्थगन्धो बहुधा यथा मिथो । श्लिष्टो ऽभितिष्ठेन्न तदन्यवस्तुनः सङ्कीर्णता नापि नभोभुवस्तथा ॥ १६ ॥ एवं निगोदासुमतां परस्पराश्लेषेऽस्ति तेषामतिबाधनं सदा । तथापि चान्यस्य न वस्तुनो ऽस्ति सङ्कीणेता नैव विहायसश्च ॥ १७ ॥ यथात्र गन्धादिकवस्तुसत्ता । ज्ञेया नसा नैव दृशाभिदृश्या । एवं निगोदात्मभृतोऽपि जैनवाक्यादिबोध्या मनसा न वीक्ष्याः ॥ १८ ॥ ते केवलज्ञानवता हि दृश्याः १३ वचा । १४ कलेवर ।