________________
(३५) सनास्तिकं सर्वमुनीशनिन्दितम् ॥ १२ ॥ कियत्स्वकीयाह्वयबद्धवैरं कियत्वपूजाप्रवणाङ्गिजातम् । नानात्महिन्दूकतुरुष्कलोकं कियत्परब्रह्मनिरासहासम् ॥ १३ ॥ षड्दर्शनाचारविचारडम्बरं प्रचण्डपाषण्डघटाविडम्बनम् । सत्पुण्यपापोत्थितकर्मभोगदं स्वर्गापवर्गादिभवान्तरोदयम् ॥ १४ ॥ वितर्कसम्पर्ककुतर्ककर्कशं नानाप्रकाराकृतिदेवतार्चनम् ।
वर्णाश्रमाचीर्णपृथक्पृथरवर्ष ३ नास्तिका हि कर्तारं न मन्यन्ते तहि सृष्टिकर्तुस्तद् ज्ञानं नासीदद्यमी ममैव विलोपका भविष्यन्ति न चात्र पितापुत्रविचारो वाच्यः पिता तु इन्द्रियपरवशो ज्ञानी अनायतितो यथातथा पुत्रकर्मणि प्रवर्ततां परब्रह्म तु निर्विकारं - सज्ञानं चेति स्वस्मृष्टिनिनवान् कथं नाम करोतीति अथ च तस्य रागद्वेषौ न स्तस्तर्हि सृष्टिसंहारो कथं करोतीति विचार्यमाणं विशीयते इति सम्यग्ध्येयम् । ४ यदि ब्रह्मणा सृष्टिः कृता तर्हि मुनीशा योगिनो ऽपि ब्रह्मणैव कृतास्तहि ते परब्रह्मचिन्तकाः सन्तः सकलं संसारस्वरूप परब्रह्मकृतं असारं ज्ञात्वा कथं निन्दयन्तीति विचार्यम् । ५ ब्रह्म । ६ ब्रह्म।७ चत्वारः। 4 चत्वारः।९धर्म ।