________________
( २९ ) संसार एषो ऽस्ति नदीहंदोदरः। नदीप्रवाहाश्च यथा महोदधौ । पतन्ति निर्गत्य नदीहदान्तरात् ॥ ४ ॥ नदीइदा नैव भवन्ति रिक्ता न चाम्बुधिः कहिंचिदस्ति पूर्णः । नदीप्रवाहो ऽपि निरंतरं यवहत्यविच्छिन्नतयातिशीघ्रं ॥ ५ ॥ इत्थं हि भव्याः परियन्ति मुक्तौ नदीप्रवाहा इव सागरान्तः। संसार एष हदवन रिक्तः पयोधिवन्नैव मृतापि मुक्तिः ॥ ६ ॥ दृष्टान्तदानॊन्तिकयोरितीदं साम्यं समालोचयतां नराणां । भवेत्प्रतीतिः परमाहतानामर्हद्वचस्येव न चापरत्र ॥ ७ ॥
अन्यो ऽपि दृष्टान्त इहोच्यते ऽय६७ नदीनां गङ्गादीनां इदाः पद्मदादयस्तेषामुदरं मध्यस्थजल प्रदेशस्तदिव यः सः तत्सदृशः संसारः अत्र लुप्तोत्प्रेक्षावाचि पदं ज्ञेयं ययामिर्माणवकः । ६८ मध्यात् । ६९ अत्रुटिततया । ७० गच्छन्ति । ७१ परमजैनानां । ७२ मिथ्यावाक्यवति ।