________________
( ६ )
सत्यं विजानन्नपि भवितादृक्कालादिनोदादशुभं हि लाति ॥ ३ ॥ तथा हि कविद्धवानपीह खादेद्भविष्यन्नियतिप्रणुन्नः । खलं विबोधन्नपि मोदकादिस्वादिष्टवस्तूनि यतः स्वतन्त्रः ॥ ४ ॥ अनन्यमार्गश्च तथैव कश्चित् स्थानं निजेष्टं प्रयियासुराशु |
प्रापितानि तादृशानि गृह्णातीति पारवश्यं जीवस्य जैनैर्व्यज्यते । तथा चोच्यते तादृशा जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता । इदं हि शास्त्रं प्रायः पृच्छकशेवाभिप्रायमाश्रित्योक्तमस्ति । शैवा हि जैनानिति वदन्ति । भो जैनाचार्याः जीवोऽयं सुखैषी सन् शुभानि कर्माणि जानन् गृह्णातु परमसौ दुःखद्वेषी सन् अशुभानि कर्माणि कथं गृह्णाति । अतो शुभानि कर्माणि ग्रहीतुमनिच्छतोऽस्य कश्चिदीश्वरादिरशुभकर्मग्रहणे प्रेरको वाच्यो यथा सबै भवन्मतं समञ्जसं स्यादिति पृच्छन्तं शैवजनं समधिगम्य जानतोऽपि जीवस्य कादि विनैव शुभकर्मग्रहणवदशुभकर्मग्रहणं वर्तते इति निगदन् जैनाचार्यः शैवादिकं प्रत्युत्तरयति सत्यं विजानभित्यारभ्या नवमकाव्यपूर्वार्धपर्यन्तग्रन्थेनेत्यादि स्वयं ज्ञेयं । १९ कालो सहाय नियs पुव्वकयं पुरिस कारणे पंच । समवाए सम्मन्तं एगंते होइ मिच्छन्तं ॥ भाविनः भविष्यतो ये तादृशाः सुखदुख हेतवः कालादयः एंव तेषां नोदः प्रेरणं तस्मात् ।