________________
( १३४ )
अनिन्द्रियान्निष्क्रियकान्निरञ्जनानित्यैकरूपान्न तु विष्णुमुख्यात् ॥ १२ ॥ स्वादात्मनो योsवगमो बभूव भावात्समाख्यागतरागरोषात् । अपूर्वलाभांन्निखिलार्थदृष्टे
रध्यात्मयोगः स्वत एव सिद्धः ॥ १३ ॥
एवं हि यश्वात्मभवात्मबोधस्तस्मान्नृणां जायत एव मुक्तिः । अस्या न हेतुस्त्वपरोऽस्ति विष्णुमुख्यस्तदात्माऽवगमस्पृहैष्या ।। १४ ।।
ये तु स्वभावान्निगदन्ति मुक्तिं तत्राप्यसावेव निवेदितोऽर्थः । स्वस्यात्मनो भाव इहाप्तिरुक्ता तदात्मलाभान्ननु सिद्धिलक्ष्मीः ॥ १५ ॥ एवं समस्तैरपि मुक्तिमिच्छुभि मुक्तिः समेष्या नियतात्मवोधात् ।
४ समभावात् । ५ अमाप्ततादृग्लाभात् । ६ सकलद्रव्यदर्शनात् । ७ मुक्तेः । ८ ज्ञान । ९ भू प्राप्तावित्यस्य भावः प्राप्तिरित्यर्थः स्वस्यामनो भावः प्राप्तिः याथातथ्येनात्मनोऽववोधेनात्मलाभ इत्यर्थः ।