________________
२
( १३२ ) सत्यं यदेते किल लोकरूढिरूढास्तु विष्ण्वादिकभिन्नवीक्षिणः । परन्तु तत्त्वार्थत एप आत्मैवार्थोऽभिवाच्यो ननु विष्णुमुख्यैः ॥ ४ ॥ कथं हि वेवेष्टवथ विष्णुरात्मा व्याप्तेरथ ब्रह्म तथैष आत्मा । शिवोऽपि चात्मा शिवहेतुतः स्याच्छक्तिस्तथात्मश्रितवीर्यमेतत् ॥ ५ ॥ इत्थं हि सर्वैरपि विष्णुमुख्यैः शब्दैरसावात्मक एव बोध्यः । ततस्त्वतो मुक्तिरियं न कस्मात् प्राप्येति तत्त्वं हृदि तैरपीक्ष्यम् ॥ ६ ॥ चेन्नेति विष्णुप्रमुखेभ्य एभ्यो मुक्तिस्तदा वैष्णवमुख्यलोकाः। सन्तो गृहस्था इह विष्णुमुख्यान ९९ परमार्थतः । ६०० केवलज्ञानजातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन विष्णुः । परब्रह्मसञ्ज्ञनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा । शिवं निर्वाणं प्राप्त यनेति शिवः कर्ममुक्तः सिद्धत्वावस्थामधिश्रितः, यदुच्यते योगवासिष्ठादौ, “जीवः शिवः शिवो जीवो, नान्तरं शिवजीवयोः । कमबद्धो भवज्जीवः, कर्ममुक्तः सदा शिवः" इति यद्वा अत्रत्यभावापेक्षया शिवमस्यास्तीति शिवः शिवसत्तावान् इत्यर्थः । २ विचारणीयम् ।।