________________
( ११० ) कूाहिकालानलकोटचक्रस्तदाश्रितज्ञप्तिरिह स्थितानाम् । शास्त्रीयवर्णन्यसनात्समग्रशास्त्रावबोधस्तदभीक्षकाणाम् ॥ ५ ॥ नन्दीश्वरदीपपुटात्तथा च लङ्कापुटात्तद्गतवस्तुचिन्ता। एवं निजेशप्रतिमापि दृष्टा तत्तद्गुणानां स्मृतिकारणं स्यात् ॥ ६॥ यदा तु साक्षान्न हि वस्तु दृश्यं तत्स्थापना सम्प्रति लोकसिद्धा। तथा च पत्यौ परदेशसंस्थे । काचित्सती पश्यति यत्तदैर्चाम् ॥ ७ ॥ यदन्यशास्त्रेऽपि निशम्यतेऽदः श्रीरामचन्द्रे परदेशसंस्थे । तत्पादुकां सोऽपि च रामवत्तदाभ्यपूजयत्श्रीभरतो नरेश्वरः ॥ ८॥ सीतापि रामाङ्गुलिमुद्रिका ता- - मालिङ्गय रामाप्तिसुखं न्यमस्त । ११ कूर्मचक्र अहिचक्रं अहिवलयाख्यं वा चक्र सूर्यकालानलचक्रं चन्द्रकालानलचक्र कोटचक्रं वेति वाच्यम् । १२ तदभिदर्शकानाम् । १३ तस्य पत्युः अची प्रतिमाम् । १४ रामायणादावपि ।