________________
( १०८ )
सन्त्यत्रं यदबोधनदर्शनाख्यचारित्रमुख्याः सकला गुणौघाः । स आत्मबोध जयति प्रकृष्टं ज्ञानादिशुद्धं यदिहास्त्यनन्तम् || ३६ || तच्छोधनेऽनन्तचतुष्टयाप्तियदीयपारप्रतिपत्तिकार्ये । ज्ञानं न कस्यापि सदा प्रभु स्यात्सर्वात्मनाकशदृशीव शाश्वतम् ॥ ३७ ॥
इति जैनतत्त्वसारे जीवकर्मविचारे सुरचन्द्रमनःस्थिरीकारे नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वकं द्रव्यधर्मादपि परम्परया भावधर्मलाभोक्तिलेशः पोडशोऽधिकारः ।
६. आत्मावबोधे ७ ज्ञान' ८ आत्मावबोधस्य सम्यग निषे कृतायां ९ आकाशदर्शने इव ।