________________
( ९९ )
अथ षोडशोऽधिकारः
reside
अथास्तिकं नास्तिक आह शस्तधीरस्त्वस्त्विदं स्वर्गपदादि निश्चितम् । परं किलैतस्य यदस्ति साधनं तद्ब्रूहि मे साम्प्रतमादरेण ॥ १ ॥ अहो त्वया साधु वचः समीरितं धर्मश्रुतौ ते यदभूदिदं मनः । एकाग्रतः शृणु तर्हि मचो यथा तवाप्यस्तु सुधीः सुधर्मे ॥ २ ॥ हिंसामृपादतग्रहीङ्गनागमाः परिग्रहश्चेति समे समन्ततः । विवर्जनीया यदिमान् विवर्ज्य सिद्धोऽभवच्छ्रीभगवान् प्रसिद्धः ॥ ३ ॥ ये सत्यशीलक्षमतोपकारिता
2
5
६१ यथा स्यात्तथा । ६२ शोभना बुद्धि: । ६३ आदान | ६४ पुनस्त्वं पश्य संसारे वसतां योगिनां ये सत्यशीलादयः लौकिका गुणा अल्पशोऽल्पशोऽभूवन् ते सर्वेऽपि गुणा वीजभूताः सन्तः एषां योगिनां सिद्धत्वेनावतीर्णानामनन्ताः सिद्धावस्थत्वयोग्याः एते भवन्तीति तत्कुतस्तत्र हेतूनाह ।