________________
( ९६ ) अथ पञ्चदशोऽधिकारः
wommm पुनश्च यदेहबहिःस्थवस्तु दृश्यं तदेवाङ्गिभिरीक्ष्यते ऽक्षः। ग्राह्यं तु यन्नास्ति न गृह्यते तत् परोक्तिशक्त्या तदपीह मन्यते ॥ १॥ पुंसो यथा कस्यचिदस्ति कन्धरा पृष्ठस्थितो वंशकमध्यगो वा। भृङ्गो ऽथवा लक्ष्म च कालकादि स्वयं न जानाति स तन्निजैः खैः ॥ २॥ यदा तु मात्रादिनिजाप्तवृद्धैस्तवात्र भृङ्गादि निगद्यतेऽदः । तदापि तेनाप्यनुमन्यते तत् परन्तु खैः स्वैर्न कदाचिदीक्ष्यम् ॥ ३॥ विदन् यथास्येक्षकमानवास्ततो ऽनेके परे सन्ति तथा स्वरीक्षकाः । घना न तस्य त्वनिरीक्षकः स्वको ऽक्येवैककस्तेन समं न चोत्तरम् ॥ ४॥ युक्तं परं नास्तिकतो घना जनाः ५३ ग्रीवा । ५४ स्वस्तिकादि । ५५ तिलकादि । ५६ स्वर्गे ।