________________
( ८६ ) इत्यादिशब्दा बहवो भवन्ति ये जिव्हादिवत्तेन हि शब्दवन्तः । स्वर्णादिवन्नो इह रूपवन्तः पुष्पादिवन्नोऽत्र च गन्धबन्धुराः॥ २१ ॥ सितादिवन्नो रसवन्त एवं न स्पर्शवन्तः पवनादिवञ्च । किन्त्वेककर्णेन्द्रियरूपग्राह्यास्ताल्वोष्ठजिव्हादिपदे प्रवाच्याः॥ २२ ॥ स्वस्वोत्थचेष्टादिविशेषगम्याः स्वाभ्याससम्प्राप्तफलानुमेयाः । स्वनामयाथार्थ्यकथानिधायिनः स्वीयप्रेतिहन्दिविनाशकारिणः ॥ २३ ॥
संघो विरोध्युत्थनिजाह्वयान्ताः २० यथा नन्दनमानन्दः शोचनं शोक इत्यादिकथनधारिणः । २१ आनन्दप्रतिद्वन्द्वी अनानन्दः शोकादिः तेनानन्देनानानन्दस्य विनाशः . क्रियते एकस्य नाशेऽपरस्योपपत्तौ वस्तूनां भावाभावौ सिद्धौ एतौ तु . तदा स्यातां यदा किञ्चिद्वस्तु स्यात् तत्सद्भावस्तु न साक्षात् स्वर्णादिवदृश्यते सर्वत्र चेष्टयैव एषां सत्ता उपदिश्यते एवं नञ्समासादिमतामे- . पामभावरूपेण विनाशो लक्ष्यते । २२ सयः शीघं आनन्दादीनां विरोधिनः शोकादयः तेभ्यः शोकादिभ्य उत्थ उत्पन्नो निजाहयस्य आनन्दादीनां स्वनाम्नः आनन्दति शब्दस्यान्तोऽवसानमनुच्चारो येषां