________________
( ८४ ) स्तेऽमी यथार्था भवतापि वाच्याः ॥ १३ ॥ आनन्दशोकव्यवहारविद्या आज्ञाकलाज्ञानमनोविनोदाः। न्यायानयो चौर्यकजारकर्मणी वर्णाश्च चत्वार इमे तथाश्रमाः ॥ १४ ॥ आचारसत्कारसमीरसेवा मैत्रीयशोभाग्यबलं महत्त्वम् । शब्दस्तथार्थोदयभङ्गभक्तिद्रोहाश्व मोहो मदशक्तिशिक्षाः ॥ १५ ॥ परोपकारो गुणखेलनाक्षमा आलोचसङ्कोचविकोचलोचाः। रागो रतिर्दुःखसुखे विवेकज्ञातिप्रियाः प्रेमदिशश्च देशाः ॥ १६ ॥ ग्रामः पुरं यौवनवार्धकास्था नामानि सिद्धयास्तिकनास्तिकाश्च । १४ अपिः समुच्चयार्थस्तेन मया वाच्या एव पुनर्भवता त्वयाप्येते मद्वद्वाच्या इति । १५ अर्थोऽभिधेयः शब्दोऽयमयं चार्थ इति च क उच्यते किं शब्दार्थयोः कश्चिदाकारादिरस्ति। १६ अयं मे प्रियो
ऽयं चाप्रियश्चेति यदा दृश्यते तदा तद्वस्तु एव दृश्यते परं- येन कृत्वा - पियशब्दः प्रवर्तते सगुणस्तु दर्शयितुं न शक्य एवमन्यत्रापि ।