________________
( ८२ )
संन्येषु तान्येव किलेन्द्रियाणि कथं विपर्यास इयानभिष्यात् ॥ ७ ॥ पुरातनं ज्ञानमथेन्द्रियाणां
सत्यं तथा चाधुनिकं प्रमाणम् । नेदं वरं किन्तु पुरातनं सत् तान्येव खानीह तु को विशेषः ॥ ८ ॥ पूर्वे मनोऽभूदविकारि यस्मात्
१० एषु अस्त्री स्त्रीदर्शक - काचकामली रोगपीडित-मत्तेषु तान्येव स्वकीयसम्बन्धान्येव तादृशाकाराण्येव स्वस्थानस्थान्येव सन्ति तर्हि कथं भ्रमो भवति । नास्तिकस्य तु रात्रिरोगमत्ततादयो न वाच्याः स्युः गृहीतैकप्रत्यक्षप्रमाणस्य नास्तिकस्य रात्र्यादीनां पदार्थानामाकारवर्णगन्धरसस्पर्शादिशून्यानां करतलामलकवत् दर्शयितुमशक्यत्वात् । ततो नास्तिकस्य तेषामेवेन्द्रियाणामप्रमाणता कथं स्यादित्येतदेवाह । ११ स्यात् । १२ नास्तिकः पृच्छयते, हे नास्तिकत्वं ब्रूहि पुरातनं माचीनं ज्ञानं यदिन्द्रियाणामभूत् स्त्रियां स्त्रीज्ञानं सितं ज्ञानं समीक्ष्य शङ्खग्रहणलक्षणं अमत्तस्य मात्रादिषु तज्ज्ञानं इत्येत्पुरातनं ज्ञानं सत्यं किंवाधुनिकं साम्प्रतिकं पुरुष स्त्रीग्रहणं पीतत्व प्राप्तशङ्खशङ्खत्वेन ग्रहणं, मत्तस्य मात्रादिषु स्वैरिन्द्रियैरेव भार्यात्वेन ग्रहणमेवं स्वामिनि सेवकत्वेन ग्रहणमित्यादि मिथ्यारूपं तत्सत्यं इति पृष्टे नास्तिकः प्राह नेदं वरं आधुनिकं ज्ञानं यदुक्तं तत्सत्यं न । किन्तु पुरातनमेव तेषां तद्वस्तुनि तद्ग्रहणलक्षणं ज्ञानं तदेव सत्यं अथैषां इन्द्रियाणां सत्यासत्यज्ञानाङ्गीकारः कथं क्रियते इति पृष्टो नास्तिकः माह पूर्वमिति ।