________________
(८०) अथ त्रयोदशोऽधिकारः
मुनीश केचिद् भुवि नास्तिका ये न पुण्यपापे नरकं न मोक्षम् । स्वगं न च प्रेत्यभवं वदन्ति को नाम तर्कः खलु तैः श्रितोऽस्ति ॥ १॥ ते नास्तिका दृश्यपदार्थसत्ता नो इन्द्रियादेयविचारमुक्ताः। प्रत्यक्षमेकं वृणते प्रमाणं पञ्चेन्द्रियाणां विषयो ऽस्ति यँत्र ॥ २ ॥ पृच्छास्ति तैः सार्धमसौ मुंनीनां चेन्नास्तिकैरिन्द्रियगोचरः श्रितः। सबैस्तु दृश्यं यदि तर्हि वस्तु किं यन्नेन्द्रियाणां विषयः समेषाम् ॥ ३ ॥ रामादिके वस्तुनि सर्वश्रोतसां किं गोचरो नेति यदाह नास्तिकः ।
९८ प्रत्यक्षे । ९९ आस्तिकानाम् । ४०० विषयः । १ य. देव दृश्यं इन्द्रियग्रहणीयं तदेव सत नास्तिकानां नान्यत् । तत्र पश्चानामपीन्द्रियाणां कस्मिन् वस्तुनि नास्तिकानां विषयोऽस्ति तद्वस्तु ते उद्वणन्तु तत्राहुनोस्तिकाः रामादिके । २ इन्द्रियाणाम् ।