________________
(७८) निपत्यमानं परिशुष्यमाणं यावधदेतत्परिभुज्यमानवत् । ग्राह्यो गृहीतः परिगृह्यमाणो यथा गुडो वा किल कर्म तहत् ॥ ५३॥ संसारिजीवा वतिनोऽवता वा तेषां तु कर्मत्रयमेतदस्ति । वसुन्धराया धनबिन्दुवृन्दवत् भुक्तं च भोग्यं परिभुज्यमानकम् ॥ ५४ ॥ कैवल्यभाजस्तु यके महान्तस्तेषां तु कर्माणि शिलाप्रवृष्टिवत् । अल्पस्थितीन्येव तथापि तद्दशा
त्रयं तु तत्रापि गवेषणीयम् ॥ ५५ ॥ ___९१ यथा मुखान्तर्गतः कवलः चर्वितः स भुक्तकर्मवत्, चय॑माणकवलस्तु भुज्यमानकर्मवत, यश्च चविष्यते कवलः स भोग्यकर्मवत, इति कर्मणां कवलदृष्टान्तयोजनेति । ९२ योगिनः । ९३ सा च भुक्तादिका या दशा अवस्था तदशा तस्यास्त्रयं तदशात्रयं भोग्यभुक्तभुज्यमानकर्मलक्षणत्रयं । ९४ केवलिसत्ककर्मसत्तायां । तत्र केवली हि केवलोत्पत्त्यनन्तरं स्वायुषोन्तसमयद्वयं यावत प्रतिसमयं भुक्तभोग्यभुज्यमानकर्मा भवति, आयुषोन्तसमयादनन्तरपूर्वसमय भुक्तभुज्य मानकर्मा स्यात् , अन्तसमये तु भुक्तकर्या न पुज्यमानका सर्वकर्मणासन्तसमये क्षयकरणात् सिद्धत्वमालेथात एवाग्रेऽनन्तरं वक्ष्यति सिदात्मनामिति ।