________________
जैन स्वाध्यायमाला
३८५
शान्तश्च दान्तश्च बहुश्रुतश्च । शास्त्रस्य गूढार्थ रहस्य वेदी। अज्ञानहन्ता परमोपदेष्टा । समर्थमल्लो मुनिरद्वितीय ।४। भ्रान्त्वार्य भूमौ सतत ददाति । धर्मोपदेश परमार्थवृत्त्या । करोति भव्यान् जिनधर्म रक्तान् । समर्थमल्लो मुनिरद्वितीय. १५॥ द्रव्यान्धकार हरतोऽब्जसूर्यो । भावान्धकारं हरसेत्वमेकः ।। अखण्डधामाऽति सदा प्रकाश । समर्थमल्लो मुनिरद्वितीयः ।। सौम्य मनोज्ञ परमं सुशान्तम् । भव्य विशालं च मुखारविन्दम् । दृष्ट्वात्वदीयं तु भवन्ति भक्त. । समर्थमल्लो मुनिरद्वितीयः ७१ अलौकिकोऽनुत्तर पाशुप्रज्ञः। विनीतको विज्ञतमो विशुद्ध ॥ त्यागी विरागी च गुणी गुणज्ञ. । समर्थमल्लो मुनिरद्वितीय. 1८।। कृत घेवरचन्द्रेण, श्री समर्थगुणाष्टकम् । भक्त्या नित्यं पठेत् यस्तु, शीघ्र सलभते शिवम् ।।