________________
३८४
" गुणाप्टक
शक्तो न वक्तुमिह कोऽपि जनो गुणान् ते । पूज्य समर्थमुनिराजमहं नमामि ।६। निर्मोहमानजितसग निरस्त दोष । मध्यात्मतत्वनिरतं नितरां सदैव ।। कन्दर्पदर्पदलने ऽतितरां समर्थ । पूज्यं समर्थमुनिराजमह नमामि ।७। युक्ति प्रयुक्तिरसयुक्त सुबोध रीतिमाधाय धर्म, विधिबोधविधौ समर्थः । एक स्त्वमेव भुवने त्वमिवासि नूनं । भवन्तमानमति घेवरवीरपुत्र' ।।
चिन्तामणिर्यत्तुलना न धत्ते । यन्मल्यकं पार्श्वमणिर्न दत्ते ।। एतादृशं जंगम रत्नमेकम् । समर्थमल्लो मुनिरद्वितीय. ।। ज्ञानेन शीलेन गुणेन वाचा। ध्यानेन मोनेन च सयमेन । शौर्येण वीर्येण पराक्रमेण । ' समर्थमल्लो मुनिरद्वितीय ।। । श्रीज्ञानचन्द्रीय विशाल गच्छे । महत्सु सत्स्वन्य मुनीश्वरेषु । सम्प्राप्तवान् “पण्डितराट्" पदं त्वं । समर्थमल्लो मुनिरद्वितीय. १३।