________________
३२४
भक्तामरस्तोत्रम्
वालम्बन भवजले पतता जनानाम् ।। य सस्तुत सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभि सुरलोकनाथ. । स्तोत्रैर्गत्रितयचित्तहरैरुदारैः । स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् २॥ बुद्धया विनाऽपि विबुधाचितपादपीठ ! स्तोतु समुद्यतमतिविंगतत्रपोऽहम् । बालं विहाय जलसस्थितमिन्दुविम्बमन्य. क इच्छति जन सहसा ग्रहीतुम् ।३। वक्तु गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षम. सुरगुरो प्रतिमोऽपि बुद्धया । कल्पातकालपवनोद्धतनकचक्र, को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ।४। सोऽहं तथापि तव भक्तिवशान्मुनीश, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगी मृगेन्द्र, नाभ्येति कि निजशिशो परिपालनार्थम् ।। अल्पश्रुत श्रुतवता परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिल किल मधौ मधुर विरोति, तच्चाम्रचारुकलिकानिकरैकहेतु.।६। त्वत्सस्तवेन भवसन्ततिसन्निबद्धं, पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।