________________
६]
जैन सिद्धांत संग्रह. ।
(७) अकलंक अकलंक स्तोत्र ।
त्रैलोक्यं सकलं त्रिकाल विषयं सालोकमालोकितम् । साक्षाद्येन यथा स्वयं करतले रेखान्त्रयं सांगुळ || रागद्वेषमयामयान्त कमरालोलत्वलोभादयो । नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ||१| दग्धं येन पुर त्रयं शरमुवा तीव्रार्चिषा वन्हिना । यो वा नृत्यति मत्तवत्पितृवने यस्मात्मनो वा गुहः ॥ सोऽयं किं मम शङ्करो मयतृषारोषांतिमोहक्षयं । कृत्वा यः स तु सर्व वितनुभृतां क्षेमंकरः शङ्करः ॥ ॥ यत्नाद्येन विदारितं कररुहे दैत्येन्द्रवक्षःस्थलम् ।
I
·
सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् ॥ नासौ विष्णुरनेककालविषयं यज्ज्ञानमंव्याहतम् । विश्व व्याप्य विजृम्भते स तु महाविष्णुः सदेष्टो मम ॥३॥ उर्वश्यामुदपादि रागबहुलं चेतो यदीयं पुनः । पात्रीदण्डकमण्डलुप्रभृतयो यस्याकृतार्थस्थितिम् ॥ आविर्भावयितुं भवन्ति स कथं ब्रह्मा भवेन्मादृशाम् । क्षुत्तृष्णाश्रमरागरोगरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ४ ॥ यो नग्ध्वा पिशितं समत्स्यकबलं भीवं च शून्यं वदन् । कर्ता कर्मफलं न मुक्त इति यो बक्ता स वुद्धः कथम् ॥ यज्जानं क्षणवा वस्तु सकलं ज्ञातुं न शक्तं सदा । यो नानन्युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ५ ॥ : किं छिन्नलिंगो यदि विगतभयः शूलपाणिः कथं स्यात् ।
: