________________
जैन सिद्धांतसंग्रह ।
(६) आलापपदति!
( श्रीमद्देवमेनविरचिता ) गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च । पर्यायाणां विशेषेण नत्वा वीरं जिनेश्वरम् ॥ १ ॥ आलापपद्धतिबंचनरचनाऽनुक्रमेण नयचक्रस्योपरि उच्यते ।
[ ४०५
PRESVE
सा च किमर्थम् ? द्रव्यलक्षण सिद्धयर्थं स्वभावसिद्धयर्थञ्च । द्रव्याणि कानि ? जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । सद्दव्यलक्षणम्, उत्पादव्ययधौव्ययुक्तं सत् इति द्रव्याधिकारः ॥
लक्षणानि कानि ! अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वं, अगुरुलघुत्वं, प्रदेशत्वं चेतनत्वमचेतनत्वं मूर्तस्वममूर्तत्वं द्रव्याणां दश सामान्यगुणाः प्रत्येकमष्टावष्टौ सर्वेषाम् ।
( एकैकद्रव्ये अष्टौ अष्टौ गुणां मंत्रन्ति । नीवद्रव्ये अचेनत्वं मूर्त्तत्वं च नास्ति, पुद्गलद्रव्ये चेतनत्वममूर्तत्वं च नास्ति, धर्माधर्माकाशकालद्रव्येषु चेतनत्वं मूर्तत्वं च नास्ति । एवं द्विद्विगुणवर्जिते अष्टौ अष्टौ गुणाः प्रत्येकद्रव्ये भवन्ति ।)
ज्ञानदर्शन सुखवीर्याणि स्पर्शरसगन्धवर्णाः गतिहेतुत्वं स्थितिहेतुत्वमवगाहन हेतुत्वं वर्तनाहेतुत्वं चेतनत्वमचेतनत्वं मूर्तत्वममूर्तत्वं द्रव्याणां षोडश विशेषगुणाः। षोडषविशेषगुणेपु नीवपुद्गलयोः षडिति । जीवस्य ज्ञानदर्शनसुखवीर्याणि चेतनत्वममूर्तत्वमिति षट् । पुद्गलस्य स्पर्शरंसगन्धवर्णाः मूर्त्तत्वमचेनत्वमिति षट् ।
१ सुक्ष्मा अग्गोचरा प्रतिक्षणं वर्तमाना आगमप्रामाण्यदभ्युपगम्या अगुरुलघुगुणाः। २ क्षेत्रत्वम् अविभागि पूहळपरमाणुनावष्टब्धम् । ३ इति खपुस्तकेऽधिकपाठः ।