________________
६. मति श्रुतावधि मनःपर्याय केवलानि ।
७. इन्द्रियमनो निबन्धनं मतिः ।
मतिः, स्मृतिः, मंज्ञा, चिन्ता, अभिनिबोध इति एकार्थाः ।
८. अवग्रह हावायधारणास्तद्भेदाः ।
जन सिद्धान्त दीपिका
६. इन्द्रियार्थयोग दर्शनानन्तरं सामान्यग्रहणमनग्रहः । इन्द्रियार्थयोरुचितदेशाद्यवस्थानरूपे योगे सति दर्शनम् - अनुल्लिखित विशेषस्य सन्मात्रस्य प्रतिपत्तिः, तदनन्तरम् - अनिर्देश्यसामान्यस्य ( वस्तुनः ) ग्रहणमवग्रहः ।
१०. व्यञ्जनार्थयोः ।
व्यजनेन इन्द्रियार्थसम्बन्धरूपेण, व्यञ्जनस्य - शब्दा