________________
जैन सिद्धान्त दीपिका न्यायेन आयुर्वर्जसप्तकर्मस्थितो' किंचिन्न्यूनककोटी-कोटि सागरोपममिताया जातायां येनाध्यवसायेन दुर्भधरागद्वेषात्मकप्रन्थिसमीपं गच्छति, स यथाप्रवृत्तिकरणम् । एतदि भव्यानामभव्यानां चानेकमो भवति । __येन अप्राप्तपूर्वाध्यवसायेन प्रन्थिभेदनाय उद्युक्ते, सोपूर्वकरणम्।
अपूर्वकरणेन भिन्ने ग्रन्थी येनाध्यवसायेन उदीयमानाया मिप्यात्वस्थितेरन्तर्मुहूर्तमतिक्रम्य उपरितनी चान्तर्मुहूर्तपरिमाणामवरुध्य तलिकानां प्रदेशवेद्याभाव: क्रियते सोऽनिवृत्तिकरणम्।
तद्वेवाभावश्चान्तरकरणम्। तस्य प्रथमेमणे बान्तहितिकमीपशमिकसम्यक्त्वं भवति ।
कश्चित् पुन: अपूर्वकरणेन मिथ्यात्वस्य पुत्रत्रयं कृत्वा शुम्पुजपुद्गलान् वेदयन् प्रथमत एव क्षायोपरामिकं सम्यक्त्वं लभते।
कश्चिन्च मिथ्यात्वं निर्मूलं सपयित्वा क्षायिकं प्राप्नोति ।
१. पस्योपमासंख्येयभागन्यूनककोटिकोटिसागरोपमितायाम् । २. उपशमसम्यक्त्वात् प्राग्वेयोत्तरवेचमिथ्यात्वपुञ्जयोरन्तरकारि
त्वात् अन्तरकरणम् । ३. शुद्धम, अर्धशुद्धम्, अशुदं च क्रमशः सम्यक्त्वमोहनीयम्, मित्र
मोहनीयम् मिथ्यात्वमोहनीयम् इति नामकं पुनत्रयम् ।