________________
८६
२३. शुभोऽशुभश्च ।
जैन सिद्धान्त दीपिका
शुभयोगः -- सत्प्रवृत्तिः, स च शुभकर्मपुद्गलान् आकर्षति । अशुभयोगः– असत्प्रवृत्तिः स च अशुभकर्मपुद्गलान् आकर्षति ।
यद्यपि सर्वेऽयाश्रवा: कर्मबन्धहेतवो भवन्ति, किन्तु कर्मपुद्गलानामा कर्षणं योगादेव जायते । तेषां स्थितेर्दीर्घतापादनं ' अनुभागस्य तीव्रता च कषायाज्जायते ।
२४. योगवर्गणान्तर्गतद्रव्यसाचिव्यात् आत्मपरिणामो लेश्या । मनोवाक्कायवगंणापुद् गल द्रव्यसंयोगात् संभूतः आत्मनः
परिणामो लेश्याऽभिधीयते ।
उक्तञ्च
कृष्णादिद्रव्यसाचिव्यात, परिणामोऽयमात्मनः । स्फटिकस्येव तत्रायं लेश्या शब्दः प्रवर्तते ।। तत्प्रायोग्यपुद्गलद्रव्यम् - द्रव्यलेश्या, क्व चिद् वर्णादिरपि ।
२५. कृष्ण-नील कापोत-तेजः पद्म- शुक्लाः । आद्यास्तिस्रः अशुभाः पराश्च शुभाः ।
इति बन्ध- पुण्य-पाप-माश्रवस्वरूपनिर्णयः ।