________________
करोनि, व्यवस्थावषम्यं, नरपश्वादिरूपं, स्वास्थ्यवपम्यं, जानवैषम्यमायुर्वपम्यमश्वयंवपम्यञ्चेति सर्वेषामपि वैषम्यानामुपनिषद्भूतं कारणं प्रकटीकरोति जडपदार्थानामप्यद्भुतकार्यकर्तृत्वं प्रादुप्कुरुते । जडेन सहात्मनो विसम्बन्धस्य प्रक्रियामुपदिशतीत्यादि । न खलु दर्शनाध्यययनमन्तरा उक्ना उक्तसमाना वा अपरेऽपि ग्रन्थयः सरला भवन्ति । दर्शनमवकमेनादृशं वस्तु विद्यते येनादृष्टा अपि पदार्थाः सम्यक् परिच्छिद्यने । दर्शनं खलु तदेव येनादृष्टं सत्यं दृश्यते सामाक्रियन वा ।
यावन्नषोऽपि निर्णय: स्यादहं कोऽस्मि-कुत आगतोऽस्मि क्व अजिस्यामि तावन् कथं स पुरुषो निर्णयेत् स्वजीवनस्योचिनं पन्थानम् । कथञ्चायतिहिताय यतेत । कियत् प्रलम्बं भविष्यन् ? किमु वर्तमानजीवनमात्रमेव ? ततोऽपि पुरा पुनर्जन्मरूपं वा? यदि प्राचीन एव पक्ष: समीचीनस्तदानीं न नामात्मविकासप्रश्नापि महीयान् । यदि पुनरुदीचीन: पीनस्तदा पौद्गलिक सुखपिपामा व्युदाम्य यथावकाशमात्मशुद्धयर्थ प्रयत्नकरणमपि स्यानितान्तमावश्यकम् । न केवलं पर्याप्नोति भौतिकसुखसमृद्धिरेवति । एतदनुसारेणव सामाजिकी राजनैतिकी व्यवस्था प्रवर्तेत । अतएव दर्शनाध्ययनमधिकरोति नि:शेपानपि दृक्कोणान् ।
न च सिद्धान्तस्य मूक्ष्मातिमूक्ष्म रहस्यमधिजिगमिषवोऽपि सहमव तत्राविदिताशयसरणी दर्शनमहामन्दिरे प्रवेष्टुं प्रभविष्णवः । स्यात्तंपामपेक्षणीयः प्रथप्रकाशी प्रदीप इव सज्जानज्योतिज्वलितः कश्चिद् ग्रन्थः । सन्त्यनेकेपि तादृशा ग्रन्थाः परन्तु केचनातिकठिनाः केचिद् विशालकलेवरा: केचिद् द्रव्य निर्णायका: केचन तत्त्वविवेचनपराः केचिच्च तत्राचाररहस्योद्बोधकाः। न खल्वत एव सौकर्य संपद्यते ध्ययनरसिकानाम् । नाहं केवलं गुरुभक्त्यंकरसिकतयंव, अपितु यथार्थमुल्लिखामि 'जनसिद्धान्त दीपिका' सिद्धान्ततत्त्वं प्रविविक्षूणां
(१०)